________________
श्रीपादलिप्तप्रबन्धः। उपानही निधायास्य कर्णयोः शयनं व्यधात् ॥ १५६ ॥ यक्षार्चकः समायातस्तं तथा वीक्ष्य भूपतेः। व्यजिज्ञपदथो तस्मै कुपतिः कुपितस्ततः॥ १५७ ॥ समेत्य शयितं बाढं पेटं प्रावृत्य सर्वतः। निजैरुत्थापयामास तेऽद्राक्षुः परितः सुतौ ॥ १५८ ॥ तैराख्याते पुनः क्रुद्धो नृपस्तं लेष्टुयष्टिभिः । अघातयत्स घातानां प्रवृत्तिमपि वेत्ति नः॥१५९॥ क्षणेन तुमुलो जज्ञे पुरेऽप्यन्तःपुरेऽपि च। पूत्कुर्वन्तः समाजग्मुः सौविदाअवदस्तथा ॥१६० ॥ रक्ष रक्ष प्रभो न्यक्षः शुद्धान्तो लेष्टुयष्टिभिः। अदृष्टविहितैः कैश्चित् प्रहारैर्जर्जरीकृतः ॥ १६१ ॥ तदाकर्ण्य नृपो दध्यौ विद्यासिद्धोऽसको ध्रुवम् । संचारयति शुद्धान्ते प्रहारान् स्वं तु रक्षति ॥ १६२ ॥ तदयं माननीयो मे ध्यात्वेति तमसान्त्वयत् । बटुभिः पटुभिर्भूपसाधिष्ठायकदेववत् ॥ १६३ ॥ अथार्यखपटाचार्यः कृत्वा कपटनाटकम् । उत्थितःप्रणतो भूमिभुजा भून्यस्तमस्तकम् ॥ १६४॥ यक्ष प्रोचे मया सार्द्ध चलेति स ततोऽचलत् । तमनुप्राचलन देवरूपकाण्यपराण्यपि ॥ १६५॥ चाल्यं नरसहस्रेण तत्र द्रोणीद्वयं तथा । चालितं कौतुकेनेत्थं तत्प्रवेशोत्सवोऽभवत् ॥ १६६ ॥ तत्प्रभावाद्भुतं वीक्ष्य जनेशोऽपि जनोपि च । जिनशासनभक्तोऽभून्महिमानं च निर्ममे ॥१६७॥ सूरिनूपेण विज्ञप्तो यक्षं स्थाने न्ययोजयत् । स शान्तो द्रोणियुगलं तत्रैव स्थापितं पुनः॥१६८॥ इतश्च श्रीभृगुक्षेत्रात् यतिद्वितयमागमत् । तेन प्रोचे प्रभो प्रैषीत्संघो नौ भवदन्तिके ॥ १६९ ॥ खस्रीयः सविनेयो वः बलात्कापलिकां ततः। उन्मोच्य पत्रमेकं सोऽवाचयारितप्रियः॥ १७०॥ तेत्राकृष्टिमहाविद्या पाठसिद्धास्य संगता।
तत्प्रभावाद्वराहारमानीय खंदतेतराम् ॥ १७१ ॥ १P-कुपितः कुपतिस्ततः. २J_H moit पटं ३ P संवार.४ P-बटुभिभूपःसाधिष्टायक देववत् ५ P-भारवाहकवद्देव.६ P-नियोजयेत्. ७J & Hसविनयोवलात्कपलि. ८ P-वाचयद्वापि च प्रियः ९ J & H-तत्राकुष्टि १० J स्वदतेतरे, H स्वदतेतरं.