________________
५८
प्रभावकचरिते
स्थविरैः शिक्षितः कोपात् सौगतान्तः स्वयंगतः । अतीव भोजने गृद्धः स्वविद्यागर्वनिर्भरः ॥ १७२ ॥ तत्प्रभावेण पात्राणि गतानि गगनाध्वना । भोज्यपूर्णान्युपायान्ति बौद्धोपासकवेश्मनः ॥ १७३ ॥ पात्राणां पुरतः श्राद्धगृहे याति पतग्रहः । स प्रधानासने न्यस्य भ्रियते सह पात्रकैः ॥ ९७४ ॥ प्रातिहार्यमिदं दृष्ट्रा शास्त्रा अपि तदादृताः । ततोऽपभ्राजनामेतां हरतागत्यवेगतः ॥ १७५ ॥ गुडशस्त्रपुरान्ते च भृगुकच्छं समाययुः । भुवने न च पात्राणि प्रेक्ष्यन्त श्राद्धवेश्मनि ॥ १७६ ॥ पूर्णानि तानि भोज्यानामायान्ति गगनाध्वना । गुरुभिः कृतयादृश्यशिलया व्योम्नि पुस्फुटुः ॥ १७७ ॥ स प्रभूनागतान् ज्ञात्वा चिह्नेन तेन भीतिभृत् । प्राणेशदथ पूज्याश्च बौद्धानामालये ययुः ॥ १७८ ॥ बौद्धैर्बुद्धनतावुक्तैः सूरिभिर्जल्पितं तथा । वत्स शुद्धोदनसुत वन्दस्वाभ्यागतं हि माम् ॥ १७९ ॥ प्रतिमास्थस्ततो बुद्ध आगत्यांहिपुरोऽपतत् । तद्वारे चास्ति बुद्धांडः प्रोक्तस्तैः सम्पदोपनः ( 2 ) ॥ १८० ॥ समेत्य प्रणतः सोऽपि प्रभुपादांबुजद्वये । उत्तिष्ठेति गिरासुरे रेखावनतः स्थितः ॥ १८१ ॥ अद्यापि स तथैवास्ति निर्ग्रन्थनमिताभिधः । बुद्धस्थाने तदादेशादेकपार्श्वेन तु स्थितः ॥ १८२ ॥ अथो महेन्द्रनामास्ति शिष्यस्तेषां प्रभावभूः । सिद्धप्राभृत निष्णातस्तद्वृत्तं प्रस्तुवीमहि ॥ १८३ ॥ नगरी पाटलीपुत्रं वृत्रारिपुरसप्रभम् । दाहो नाम राजास्ति मिध्यादृष्टिर्निकृष्टधीः ॥ १८४ ॥ दर्शनव्यवहाराणां विलोपेन वहन्मुदम् । बौद्धानां नग्नतां शैवव्रजे निर्जटतां च सः ॥ १८५ ॥ वैष्णवानां विष्णुपूजात्याजनं कौलदर्शने । धम्मिल्लं मस्तके नास्तिकानामास्तिकतां तथा ॥ १८६ ॥ ब्राह्मणेभ्यः प्रमाणं च जैनर्षीणां स पापभूः । तेषां च मदिरापानमन्विच्छन् धर्मनिह्नवी ॥ १८७ ॥ आज्ञां ददौ च सर्वेषामाज्ञाभङ्गे स चादिशत् ।
१ P- बौद्धौपासकवेश्मतः २ J & H - श्राद्धा. ३ P - प्रैष्येत. ४ P - प्राक्तस्तैः सपदोः पतः- ५ J & H - गिरौः सुरेबौद्धा वनस्थितः ६ J & H - अथ. ७ P - राजात्र. ८ J & H - त्यजतां & धम्मिलं. ९ P -सचादशत्.