________________
श्रीपादलिप्तप्रबन्धः।
तेषां प्राणहरं दण्डमत्र प्रतिविधिर्हि कः ॥ १८८ ॥ नगरस्थितसंघाय समादिष्टं च भूभुजा। प्रणम्या ब्राह्मणाः पुण्या भवद्भिर्वोऽन्यथा वधः॥ १८९ ॥ धनप्राणादिलोभेन मेने तद्वचनं परैः। निष्किंचनाः पुनर्जेंनाः पर्यालोचं प्रपेदिरे ॥ १९० ॥ देहत्यागान नो दुःखं शासनस्याप्रभावना। तत्पीडयति को मोहो देहे यायावरे पुनः ॥ १९१ ॥ विमृश्य गुरुभिः प्रोचे श्रीआर्यखपटप्रभोः। शिष्याग्रणीमहेन्द्रोऽस्ति सिद्धप्राभृतसंभृतः ॥ १९२ ॥ भृगुक्षेत्रे ततः संघो गीतार्थ स्थविरद्वयम् । प्रहिणोतु स चामुष्मिन्नर्थे प्रतिविधास्यति ॥ १९३॥ तथाकृतेन संघेन तत्पूज्यैः प्रहितोऽथ सः । अभिमन्त्रितमानैषीत्करवीरलताद्वयम् ॥१९४ ॥ उवाच च नृपादेशः प्रमाणं गणकैः पुनः।। वीक्षणीयो मुहूर्तोऽसौ य आयतिशुभावहः ॥ १९५ ॥ इति स ज्ञापयापास भूपालाय कृतीश्वरः। सचोत्सेकं दधौ शक्तिरपूर्वकरणे मम ॥ १९६॥ दैवज्ञैश्चर्चिते लग्ने स्वीयप्रज्ञानुमानतः। महेन्द्राधिष्ठिता जग्मुः सूरयस्तन्नरैः सदः॥ १९७॥ याशिका दीक्षिता वेदोपाध्याया होमशालिनः । सायंप्रातव्रता आवसथीयाः स्मार्तऋत्विजः ॥ १९८॥ गाङ्गमृच्चन्दनालेपतिलकौघपवित्रिताः। काषायाधौतपोताव्याः सोपवीतपवित्रिकाः॥ १९९॥ सिंहासनेषु चित्रेषु गब्दिकाद्यास्तृतेषु ते । उपविष्टास्तदा दृष्टा महेन्द्रेण मनीषिणा ॥ २०० ॥ विशेषकम् । ऊचे तेन क्षितेर्नाथ यदपूर्वमिदं हि नः । पूर्व पूर्वामुखान् किंवा नमामः पश्चिमामुखान् ॥ २०१॥ जल्पन्ति निकरेणासौ करवीरलतां किल । संमुखानां परावृत्त्य पृष्टे चाभ्रामयत्ततः ॥ २०२॥ युग्मम् । आसन्लुचितशीर्षास्ते निश्चेष्टा मृतसंनिभाः। अभूच्च भूपतेर्वकं विच्छायं शशिवहिने ॥ २०३॥ सम्पन्नाश्च तथा सम्बन्धिनस्तेषां कृपाभुवः । १P-दहत्यागानवो दुक्खं J& H शासनस्य प्रभा. २ P-शिष्याग्रणीमहे. ३ J & H- करणे मना. ४ JH-वेदोपाधायो P-आवसथाया. ५ Pपवित्रितीः ॥ कषाय; साप० ६ P-उपतिष्टामहेंद्रेण स्तदा. ७ पूर्वपूर्व. ८ Pसंमुखीनां पुरा J& H चाभ्रमय. ९P-लुठित.