________________
प्रभावकचरिते
जल्पयन्त्यभिधाग्राहं को हि जल्पत्यचेतनः ॥ २०४॥ क्रन्दन्ति वजनाः सर्वे विकर्म फलितं हि नः । अदृष्टश्रुतपूर्वा हि जैनर्षीणां नतिः परे ॥ २०५॥ भूपरूपेण कालोयं दर्शनानामुपस्थितः । पुस्तकस्थपुराणेषु कथापीडनहि श्रुता ॥ २०६॥ उत्थायाथासनाद्भूपः पश्चात्तापमुपागतः।। महेन्द्रस्य महेन्द्रस्य धीरेषु न्यपतत्यदोः ॥ २०७॥ रक्ष रक्ष महाविद्य प्रसीद त्वं ममोपरि। क्षमस्वैकं व्यलीकं मे सन्तो हि नतवत्सलाः ॥ २०८ ।। संजीवय द्विजानेतान् रुदत्संबन्धियोषितः। कस्ते माहात्म्यसात्म्यस्य पारं प्राप्तः सुधीरपि ॥ २०९ ॥ इत्याकर्ण्य गिरं प्राह महेन्द्रः शमिनां पतिः। अनात्मज्ञ धराधीश कस्ते मिथ्याग्रहोलगत् ॥ २१० ॥ निर्वाणमधितस्थुश्चेजिना आनन्दचिन्मयाः । तदधिष्टायिकाः सन्ति प्रत्ययाढ्यास्तथाप्यहो ॥ २११ ॥ एवं मृष्यति को नाम प्राकृतोपि विडंबनम् ॥ ब्राह्मणानां गृहस्थानां प्रणामो यतस्थितैः ॥ २१२ ॥ दैवतैः शिक्षिता एते त्वदन्यायप्रकोपिभिः। न मे कश्चित्प्रकोपोऽस्ति मादृशां मण्डनं शमः ॥ २१३ ॥ पुनर्बाढं नृपः प्राह त्वमेव शरणं मम । देवो गुरुः पिता माता किमन्यैर्लल्लिभाषितैः ॥ २१४ ॥ अमून् जीवय जीवातो जीवानां करुणां कुरु । अथावोचत्कृती देवान् सान्त्वयिष्ये प्रकोपिनः ॥ २१५ ॥ विद्यादेव्यः षोडशापि चतुर्विंशतिसंख्यया । जैना यक्षास्तथा यक्षिण्यश्च वोऽभिदधाम्यहम् ॥ २१६ ॥ अज्ञानादस्य भूपस्यापराद्धं जिनशासने । द्विजैरमीभिस्तत्क्षम्यं मानवाः स्युः कियद्दशः॥ २१७ ॥ इत्युक्ते तेन दैवी वाक् प्रादुरासीदुरासदा। एषां प्रव्रज्यया मोक्षोऽन्यथा नास्त्यपि जीवितम् ॥ २१८ ॥ अभिषेकेण तेषां गीमुत्कला च व्यधीयतः (त)। पृष्टा अङ्गीकृतं तैश्च को हि प्राणान्न वाञ्छति ॥ २१९॥ उत्तिष्ठतेति तेनोक्ता भ्राम्यताथारालता । सजीबभूवुः प्राग्वत्ते जैना ह्यमितशक्तयः ॥ २२० ॥ संघेन सह रोमांचांकुरकन्दलितात्मना।। १ J& H प्रत्ययाद्याः २ J & H षोडशोपि. ३ J&H राना ४ JH-गीमुक्तालावव्यधीयत्. ५ P-त्रास्यतोथोपरा. ६ J & H-कुरु.