________________
श्रीपादलिप्तप्रबन्धः। राशा कृतोत्सवेनार्थ खं विवेशाश्रयं मुनिः ॥ २२१ ॥ प्रव्रज्योत्सवमाधास्यन् सङ्घस्तेन द्विजन्मनाम् । न्यषेध्यतार्यखपटप्रभुः कर्तेति जेल्पता ॥ २२२॥ एवं प्रभावभूमेस्ते कीदृगस्ति गुरुः प्रभोः। इत्युक्तः श्रीमहेन्द्रोऽसौ प्राह कोऽहं तदग्रतः॥ २२३॥ मार्जारभ्य इव क्षीरं सौगतेभ्यो व्यमोच्यत । अश्वावबोधतीर्थ श्रीभृगुकच्छपुरे हि यैः ।। २२४ ॥ श्रीआर्यखपटाख्यानां प्रभूणां महिमाद्भुतम् । तेषां स्तोतुमलं कः स्याद्वादिद्विपहरिश्रियाम् ॥२२५॥ युग्मम् ।
चारित्राश्मनि संप्रपीष्य मदनं पात्रे वरिष्ठात्मके वृद्धस्नेहभरे तपोऽनलमिलज्ज्वाले विपक्कः स्फुटम् ।
रोदः कुंजरकुण्डके सिँतरुचिज्योत्स्नाम्लके यद्यशोराशिः स्यादवसेकिमोऽभ्रविवरःस्वाद्यः सतां सोऽवतात् २२६ अथासौ ब्राह्मणैः सार्द्ध संघेनानुमतो ययौ। उपपूज्यं दीक्षिताश्च वाडवाः प्रभुभिस्ततः॥२२७॥ इत्यार्यखपटश्चक्रे शासनस्य प्रभावनाम् । उपाध्यायो महेंद्रश्च प्रसिद्धि प्रापुरद्भुताम् ॥ २२८ ॥ अश्वावबोधतीर्थे च प्रभावकपरम्परा । अद्यापि विद्यते यस्य संताने सूरिमण्डली ॥ २२९ ॥ सूरिः श्रीपादलिप्तः प्रागाख्यातगुरुसन्निधौ। प्रतीतप्रातिहार्याणि तानि शास्त्राण्यधीतवान् ॥२३० ॥ पादलिप्ताख्यभाषा च विद्वत्सङ्केतसंस्कृता। कृता तैरपरिशेयोऽन्येषां यत्रार्थ इष्यते ॥ २३१॥ आवर्जितश्च भूपालः कृष्णाख्यः संसदा सह ।। न ददात्यन्यतो गंतुं गुणगृह्यो मुनीशितुः ॥ २३२॥ अथार्यखपटः सूरिः कृतभूरिप्रभावनः । अन्तेऽनशनमाधाय दैवीभुवमशिश्रियत् ॥ २३३॥ श्रीमहेन्द्रस्ततस्तेषां पट्टे सूरिपदेऽभवत् । तीर्थयात्रां प्रचक्राम शनैः संयमयात्रया ॥ २३४॥ पुरा ये पाटलीपुत्रे द्विजाः प्रव्रजिता बलात् ।
जातिवैरेण तेनात्र ते मत्सरमधारयन् ॥ २३५ ॥ १H & J-पूरवां. २ J & H-जल्पत. ३ H & J-प्रवीक्ष्य. and वरिष्टात्मको...मुके यशो. ४ P-शितभुविचरस्वाद्यसतां ५ P-इत्याचार्य. J & H-प्रभावना. ६ P-सूरिमूडली. ७ P-णिधीत. ८J H-संस्कृतांतैरपि ज्ञेयान्येषां.