________________
६२
प्रभावकचरिते
संघेन पादलिप्तस्य विशैर्विज्ञापितं नरैः । ततस्तेषां समादिक्षत् स विमृश्य प्रभुस्तदा ॥ २३६ ॥ कार्त्तिक्यामहमेष्यामीत्युक्त्वा तान् स व्यसर्जयत् । ततो राजानमापृच्छ्य भृगुकच्छं समाययौ ॥ २३७ ॥ पूर्वाह्ने व्योममार्गेण रत्नवद्भास्वराकृतिः । अवतीर्णो विशीर्णेनाः श्रीसुव्रतजिनालये ॥ २३८ ॥ तत्रागतं तमुत्प्रेक्ष्य भास्वन्तमिव भूगतम् । लोकः कोक इवानन्दं प्राप दुष्प्रापदर्शनम् ॥ २३९ ॥ चित्रात्तत्रागमद्राजा नमश्चक्रे च तं गुरुम् । महानन्दं ददौ तत्र भक्त्या संघसमन्वितः ॥ २४० ॥ तत् प्रदापितमर्थिभ्यो द्रव्यं गुरुभिरद्भुतम् । द्विजा व्योमाध्वगं तं च दृष्ट्वातिभयतोऽनशन् ॥ २४१ ॥ राजाह सुकृती कृष्णः पूज्यैर्यो न विमुच्यते । दर्शनस्यापि नाहीः स्मो मूले जाता वयं कथम् ॥ २४२ ॥ कियन्त्यपि दिनान्यत्रावतिष्ठध्वं सुखाय नः । प्राहुः पूज्याश्च युक्तैवावस्थितिर्भवदन्तिके ॥ २४३ ॥ संघादेशो ह्यनुल्लङ्घयः स्नेहश्च नृपतेरपि । पुरस्तस्यापराह्ने चागमनं प्रति शुश्रुवे ॥ २४४ ॥ ततः शत्रुञ्जये रैवतके संमेतपर्वते । अष्टापदे च कर्त्तव्या तीर्थयात्रा ममाधुना ॥ २४५ ॥ आपृष्टोऽपि महाराज तैज्जैने भव भक्तिमान् । इत्युक्त्वाकाशमार्गेण यथारुचि ययौ प्रभुः ॥ २४६ ॥ तीर्थयात्रां प्रकुर्वाणः पादचारेण सोऽन्यदा । सुराष्ट्राविषयं प्रापदपारश्रुतपारगः ॥ २४७ ॥ तत्रास्ति विगतातङ्का टंकानाम महापुरी । श्रीपादलिप्तस्तत्रायाद्विहरन् व्रतलीलया ॥ २४८ ॥ तत्र नागार्जुनो नाम रससिद्धिविदांवरः । भाविशिष्यो गुरोस्तस्य तद्वृत्तमपि कथ्यते ॥ २४९ ॥ अस्ति क्षत्रियमूर्धन्यो धन्यः समरकर्मसु । संग्रामनामा विख्यातस्तस्य नार्यस्ति सुव्रता ॥ २५० ॥ सहस्रफणशेषाहिस्वप्नसंसूचितस्थितिः । कृतनागार्जुनाभिख्यस्तयोः पुत्रोऽस्ति पुण्यभूः ॥ २५९ ॥
१J H - प्रापुर्दुःप्रा. २ JH - sथ. ३ P - जैनै ४ P - ध्वन्यः; JH समकर्मसु . ५ P सहस्त० ६ JH - पुण्यतः