________________
श्रीपादलिप्तप्रबन्धः।
स वर्षत्रयदेशीयोऽन्यदा क्रीडन् शिशुव्रजैः । सिंहार्भकं विदार्यागात्तस्मात्किचिच्च भक्षयन् ॥ २५२ ॥ पित्रा निवारितः क्षात्रे कुले भक्ष्यो नखी नहि । तदागतेन चैकेन सिद्धपुंसेति वर्णितम् ॥ ५५३॥ मा विषीदव पुत्रस्य विहितेन नरोत्तम । अशक्यास्वादसूतस्यास्वादं प्राप्स्यत्यसौ सुतः॥२५४॥ विनिद्र उद्यमी भावानाबाल्यादपि तेजसा । प्रवृद्धपुरुषैः संगमङ्गीचके कलाद्भुतैः ॥ २५५॥ गिरयः सरितो यस्य गृहाङ्गणमिवाभवन् । दूरदेशान्तरं गेहान्तरं भूरिकलादरात् ॥ २५६ ॥ नागवंगीकृताभ्यासस्ताररङ्गस्य रङ्गभूः। संग्रही चौषधीनां यो रससिद्धिकृतामिह ॥ २५७ ॥ यःसत्त्वं तालके पिष्टं गंधके द्रावमभ्रके। जारणं मारणं सूते वेत्ता छेत्ता सुदुःस्थितेः ॥२५८ ॥ सहस्रलक्षकोयंशधूमवेधान् रसायनम् । वडिवद्वान् चकाराथ नदीष्णो रससाधने ॥२५९ ॥ स महीमण्डलं भ्रान्त्वान्यदा स्वपुरमासदत् । पादलिप्तं च तत्रस्थं जज्ञे निःसंख्यसिद्धिकम् ॥२६०॥ पर्वताश्रितभूमौ च कृतावासः स्वशिष्यतः। अकार्षीत् पादलेपार्थी ज्ञापनं गणभृत्पतेः ॥ २६१ ॥ तृणरत्नमये पात्रे सिद्धं रसमढौकयत्।। छात्रो नागार्जुनस्य श्रीपादलिप्तप्रभोः पुरः॥ २६२ ॥ स प्राह रससिंद्धोयं ढौकने कृतवान् रसम् । खान्तर्द्धनमहोस्नेहस्तस्येत्येवं स्मितोव्यधात् ॥ २६३ ॥ पात्रं हस्ते गृहीत्वा च भित्तावास्फाल्य खण्डशः ॥ चक्रे च तन्नरो दृष्ट्वा व्यषीदद्वक्रवक्रभृत् ॥ २६४ ॥ मा विषीद तव श्राद्धपार्श्वतो भोजनं वरम् । प्रदापयिष्यते चैवमुक्त्वा संमान्य भोजितः ॥ २६५ ॥ तस्मै चापृच्छयमानाय काचपोत्रं प्रपूर्य सः।। प्रश्रावस्य ददौ तस्मै प्राभृतं रसवादिने ॥ १६६ ॥ नूनमस्महुरुर्मूर्खः योऽनेन स्नेहमिच्छति । विमृशन्निति स स्वामिसमीपं जग्मिवांस्ततः ॥२६७ ॥ १ J_H-कुर्वन्. २JH-दूरे. ३ P-तांभ्यास. ४ JHलक्षधूम...नय. ५ JH-विडबद्वान्. ६ JH. omit पुरः. ७J Hरसविद्ययं. ८JH-सामा. ९ J_H-काचामंत्रं.