________________
६४
प्रभावकचरिते
पूज्यैः सहाद्भुता मैत्री तस्येतिस्मितपूर्वकम् । सम्यग्रविज्ञप्य वृत्तान्तं तदमत्रं समार्पयत् ॥ २६८ ॥ द्वारमुन्मुद्र्य यावत्स सन्निधत्ते दृशोः पुरः । आजिघ्रति ततः क्षारविस्रगन्धं स बुद्धवान् ॥ २६९ ॥ अहो निर्लोभतामेष मूढतां वा स्पृशेदथ । विमृश्येति विषादेन बभंजाश्मनि सोऽपि तत् ॥ २७० ॥ दैवसंयोगतस्तत्रैकेन वह्निः प्रदीपितः । भक्ष्यपाकनिमित्तं च क्षुत्सिद्धस्यापि दुःसहः ॥ २७१ ॥ पेक्कानृजलवेधेन वह्नियोगे सुवर्णकम् । सुवर्णसिद्धिमुत्प्रेक्ष्य सिद्धशिष्यो विसिष्मिये ॥ २७२ ॥ व्यजिज्ञपहरु सिद्धं सिद्धिस्तस्याद्भुता प्रभोः । ग्रीवा हमीभवेद्यस्य मलमूत्रादिसङ्गमे ॥ २७३ ॥ ततो नागार्जुनः सिद्धो विस्मयस्मेरमानसः । दध्यौ स मम का सिद्धिर्दारिद्र्यं कुर्वतः सदा ॥ २७४ ॥ वास्तेत्र चित्रको रक्तः कृष्णमुण्डी च कुत्र सा । शाकम्भर्याश्च लवणं वज्रकन्दश्च कुत्र वा ॥ २७५ ॥ इत्येवं दूरदेशस्थौषध पिण्डान् प्रपिण्डयन् । भिक्षाभोजनतोम्लानदेहोऽहं सर्वदाभवम् ॥ २७६ ॥ युग्मम् आचार्योऽयं शिशुत्वादप्यारभ्य प्राप्तपूजनः ।
सुखी विहायोगामिन्या सिद्धया साध्यानि साधयन् ॥ २७७॥ तथा यद्देहमध्यस्था मलमूत्रादयो वसु । साधयन्ती मृदश्मादिद्रव्यैस्तस्यास्तु का कथा ॥ २७८ ॥ रसोपकरणं मुक्त्वा ततोऽसौ प्रभुसन्निधौ । जगाम विनयानम्रमौलिर्मदभरोज्झितः ॥ २७९ ॥ प्रणम्य चावदन्नाथ सिद्धिगर्वः स सर्वतः । समागलत् प्रभौ दृष्टे देहसिद्धे जितस्पृहे ॥ २८० ॥ ततः प्रभुपदाम्भोजं सदाप्यवलगाम्यहम् । मिष्टान्नं लभमानस्य कदन्नं कस्य रोचते ॥ २८१ ॥ इति श्रीपादलिप्तस्य चरणक्षालनादिकम् । देहशुश्रूषणं नित्यं विदधाति प्रशान्तगीः ॥ २८२ ॥ सूरयश्च मुनित्राते गते विचरितुं तदा । प्रागुक्तपञ्चतीर्थान्ते गत्वा व्योम्ना प्रणम्य च ॥ २८३ ॥
१ J H—सहम्. २ J P -पक्ता. ३ P - योगे सुवर्णसिद्धमत्प्रेक्ष्य शिष्योविसिष्मिये. षुच ४ JP - ग्रावो. ५ JH - कास्ते. ६ P -च. ७ JH omit सिद्धे. ८ JH omit मिष्टान्नं.