________________
श्रीपादलिप्तप्रबन्धः। समायान्ति मुहूर्तस्य मध्ये नियमपूर्वकम् । विद्याचारणलब्धीनां समानास्ते कलौ युगे ॥ २८४ ॥ आयातानामथैतेषां चरणक्षालनं ध्रुवम् । जिज्ञासुरौषधानीह निर्विकारश्चकार सः॥ २८५॥ स जिघ्रन् विमृशन् पश्यन् स्वादयन् संस्पृशन्नपि । प्रज्ञाबलादौषधीनां जज्ञे सप्ताधिकं शतम् ॥ २८६ ॥ विधायौषधसंयोगं ततः कल्कं चकार सः। पादमालेपयत्तेनोच्छलितो गगनं प्रति ॥ २८७॥ स ताम्रचूडसंपातं कृत्वा च न्यपतहुणी। उचैःप्रदेशात्पातेन जानौ गुल्फे च पीडितः॥ २८८ ॥ . रक्ताभ्यक्तवणक्लिन्नजको दृष्टः शमीश्वरैः। उक्तं च किमहो पादलेपः सिद्धो गुरुं विना ॥ २८९ ॥ सोऽब्रवीच सितं कृत्वा नास्ति सिद्धिर्गुरुं विना । निजप्रज्ञाबले किंतु परीक्षां चक्रिवानहम् ॥ २९०॥ प्राह श्रीपादलिप्तोऽपि प्रसन्नस्तस्य सत्यतः। शृणु नाहं न ते तुष्टो रससिंद्धया न तेऽनया ॥ २९१ ॥ शुश्रूषयानया नापि परं प्रज्ञाबलेन ते । तोषोंहिक्षालनात्को हि वस्तुनामानि बुध्यते ॥ २९२॥ ततो दास्यामिते विद्यां परं मे गुरुदक्षिणाम् । कां दापयसि स चोवाच यामादिशसि मे प्रभो ॥ २९३॥ ऊचे च गुरुणा सिद्ध त्वयि स्निग्धं मनो मम ।
उपदेश्यामि ते पथ्यं तथ्यं गाथां ततः शृणु ॥ २९४॥ सा च-दीहरफणिंदनाले महिहरके सरदिसा बहुदलिल्ले।
उपियइकालभमरो जणमयरन्दं तुहइपउमे ॥ २९५॥ ततो विश्वहितं धर्ममाद्रियस्व जिनाश्रयम्। तथेति प्रतिपन्ने च तेन तहुरुरादिशत् ॥ २९६॥ आरनालविनिौततंडुलामलवारिणा । पिष्टौषधानि पादौ च लिप्त्वा व्योमाध्वगोऽभवत् ॥२९७ ॥ तथैव विहितेऽसौ च जगाम गगनाध्वना। पक्षिराजवदुड्डीय यथाभिलषितां भुवम् ॥ २९८ ॥ कृतज्ञेन ततस्तेन विमलानेरुपत्यकाम् ।
गत्वा समृद्धिभाक् चक्रे पादलिप्ताभिधं पुरम् ॥ २९९ ॥ १P-स्तु. २ J H विद्या. ३J H omit नया ते. ४ J Hदास्यामि and omit प्रभो ५JH मु.