________________
प्रभावकचरिते अधित्यकायां श्रीवीरप्रतिमाधिष्ठितं पुरा । चैत्यं विधापयामास स सिद्धः साहसीश्वरः ॥ ३०० ॥ गुरुमूर्ति च तत्रैवास्थापयत्तत्र च प्रभुम् । प्रत्यष्टापयदाहूयार्हद्विम्बाण्यपराण्यपि ॥ ३०१॥ श्रीपादलिप्तसूरिश्च श्रीवीरपुरतः स्थितः। स्तवं चक्रे वरं गाहाजुअलेणेति संज्ञितम् ॥ ३०२ ॥ गाथाभिश्चेति सौवर्णव्योमसिद्धिसुगोपिते । प्रभुर्जजल्प नाभाग्याःप्रबुध्यन्तेऽधुनातनाः॥ ३०३॥ तथा रैवतकक्ष्माभृद्धो दुर्गसमीपतः। श्रीनेमिचरितं श्रुत्वा तादृशाप्तप्रभोर्मुखात् ॥ ३०४ ॥ कौतुकात्तादृशं सर्वमावासादि व्यधादसौ। दशाहमण्डपं श्रीमदुग्रसेननृपालयम् ॥ ३०५ ॥ विवाहादिव्यवस्थां च वेदिकायां व्यधात्तदा । अद्यापि धार्मिकैस्तत्र गतैस्तत्प्रेक्ष्यतेऽखिलम् ॥ ३०६ ॥ इतः पृथ्वीप्रतिष्ठाने नगरे सातवाहनः। सार्वभौमोपमः श्रीमानृप आसीहुणावनिः ॥ ३०७ ॥ तथा श्रीकालकाचार्यस्वस्त्रीयः श्रीयशोनिधिः। भृगुकच्छपुरं पाति बलमित्राभिधो नृपः॥ ३०८ ॥ अन्येद्युः पुरमेतञ्च रुरुधे सातवाहनः। द्वादशाष्टानि तत्रास्थाबहिर्न व्याहतं भवत् ॥ ३०९॥ अथाशक्यग्रहे दुर्गे निर्विण्णश्चिरकालतः। श्रीपादलिप्तशिष्यस्तन्मन्त्रीनाथं व्यजिज्ञपत् ॥ ३१०॥ ग्राहयिष्याम्यहो दुर्ग भेदात्तत्प्रेषयस्व माम् । एवमस्त्विति तेनोक्ते निर्ययौ शिबिरात्ततः॥३११ ॥ स भागवतवेषेण प्राविशन्नगरान्तरा। भूपालमन्दिरे गत्वा तं नाथं च व्यलोकयत् ॥ ३१२ ॥ जीर्णदेवगृहोद्धारो महादानादिसत्किया। पुण्याय स्फूर्यते दुर्गरोधाद्यावनिवर्तते ॥ ३१३॥ सोपि संरोधनिर्विण्णस्तदाक्षिप्तो व्यधाददः। धर्मोपदेश आपत्सु कार्यपक्षे हि जायते ॥ ३१४ ॥ धर्मस्थानानि भज्यन्ते बहिर्यत्राः सगोलकैः। समारचयते राजा तस्य धर्मोपदेशतः॥ ३१५ ॥ पौनःपुन्येन भज्यन्ते निष्पाद्यन्ते पुनः पुनः। .एवं च बलमित्रस्य सर्वस्वं निष्ठितं तदा ॥ ३१६ ॥ १ J_H omit बहिर्यत्रा..... पौनःपुन्येन भज्यंते.