________________
श्रीपादलिप्तप्रबन्धः। श्रीसातवाहनो दुर्ग मंत्रिबुद्ध्या ततोऽग्रहीत् । तन्निगृह्य महीपालं नगरं स्वं ययौं मुदा ॥ ३१७ ॥ अन्यदा तस्य राजेन्दो राज्य विद्धतः सतः। चत्वारः शास्त्रसंक्षेपकवयो द्वारमभ्ययुः ॥ ३१८ ॥ प्रतीहारेण ते राज्ञो विज्ञाप्य भवनान्तरा।
मुक्ता एकैकपादं च श्लोकस्याहुनृपाग्रतः॥ ३१९ ॥ तथाहि-जीर्णे भोजनमात्रेयः कपिलः प्राणिनांदया।
बृहस्पतिरविश्वासः पाञ्चालस्त्रीषु मार्दवम् ॥ ३२०॥ पूर्व प्रशस्य तेषां स महादानं ददौ प्रभुः। परिवारो न किं स्तौतीत्युक्ते तैराह भूपतिः॥ ३२१ ॥ भोगवत्यभिधां वारवनितां त्वं स्तुतिं कुरु । पादलिप्तं विना नान्यः स्तोतव्यो मम साब्रवीत् ॥३२२॥ आकाशमार्गजंघालो विद्यासिद्धो महाक्रियः। पादलिप्तादृते कोन्य एवंविधगुणावनिः ॥३२३ ॥ संधिविग्रहिको राज्ञः शंकरो नाम मत्सरी। असहिष्णुः स्तुतिं तस्यावादीदादीनवस्थितिः॥ ३२४॥ मृतो जीवति यस्तस्य पाण्डित्यं प्रकटं वयम् । मन्यामहेपि ते कीरा विद्वांसो गगनेचराः॥ ३२५॥ भोगवत्याह तत्रेदमपि संभाव्यते ध्रुवम् । अतुल्यप्राभवा जैना देवा इव महर्षयः ॥ ३२६ ॥ मानखेटपुरात् कृष्णमापृच्छय्य स भूपतिः। श्रीपादलिप्तमाह्वासीदेतस्मादेव कौतुकात्॥३२७॥ आययौ नगराबाह्योद्याने जैनो मुनीश्वरः । विद्वान् बृहस्पतिर्ज्ञात्वा परीक्षामस्य चक्रिवान् ॥ ३२८ ॥ विलीनसर्पिषा पूर्ण रौप्यकच्चोलकं ततः। प्रेषिवानिपुणेनैष स प्रभोस्तददर्शयत् ॥ ३२९ ॥ धारिणीविद्यया सूचिमवस्थाप्योर्धसंस्थिति । प्रैषयत्तेन तेदृष्टं विषण्णोऽथ बृहस्पतिः॥ ३३०॥, अथाभ्यागत्य भूपालः प्रवेशोत्सवमादधे । गुरोरुपाश्रयस्तस्य महार्हश्च प्रदर्शितः॥ ३३१ ॥ कथा तरङ्गलोलाख्या व्याख्याताभिनवा पुरः।
भूपस्य तत्र पांचालः कवि शमसूयितः॥३३२॥
१J H मुक्त्वा. २ P श्वासपंचालः स्त्रीषुमाईवः. ३J H omit this ___line. ४ P प्रेषि. ५JH प्रेषयत्तेनदृष्टिं.