________________
प्रभावकचरिते प्रशंसति कथां नैव दूषयेत्प्रत्युताधिकम् । रासभस्य मुखाकिस्यात् शान्तिपानीयनिर्गमः ॥ ३३३॥ मद्रंथेभ्यो मुषित्वार्थबिन्दु कंथेयमाथि । बालगोपाङ्गनारङ्गसङ्गि ह्येतद्वचः सदा ॥ ३३४॥ विदुषां चित्तरङ्गेनोत्पादयेत्प्राकृतं हि तत् । स्तौति भोगवती ह्येतत्तादृशां तादृगौचिती ॥३३५ ॥ अन्यदा कपटात् स्वस्य मृत्युमैक्षयत प्रभुः। दाहात्पूत्कारपूर्व च जनस्तत्रामिलद् घनः ॥ ३३६ ॥ शिबिकांतस्तनुःसाधु क्षिप्त्वा यावत्समाययौ।। वादित्रैर्घाद्य मानश्च पश्चालभवनाग्रतः ॥ ३३७॥ तावहाद्विनिष्क्रामन् जझेऽसौ शोकपूरितः । आह हाहा महासिद्धिपात्रं सूरिययौ दिवम् ॥ ३३८ ॥ मादृशोऽसूययाक्रान्तः सत्पात्रे सूनृतव्रते ।।
अकुर्वत दृशो रक्ता मोक्षो नास्ति तदेनसः ॥ ३३९ ॥ (यतउक्तम् ) आकरः सर्वशास्त्राणां रत्नानामिव सागरः ।
गुणैर्न परितुष्यामो यस्य मत्सरिणो वयम् ॥ ३४० ॥ (तथा) सीसं कहवि न फुटुंजमस्स पालित्तयं हरंतस्य ।
जस्समुहनिर्झराउ तरंगलोला नई बूढा ॥ ३४१ ॥ पंचालसत्यवचनाजीवितोहमिति ब्रुवन् । उत्तस्थौ जनताहर्षारावेण सह सूरिराट् ॥ ३४२ ॥ जनैराश्यमानश्च ततोऽसौ गुणिमत्सरी। निर्वास्यमानो न्यक्कारपूर्वमुर्वीपतेर्गिरा ॥३४३॥ रक्षितो मानित॑श्चाथ बन्धुवन्धुरसौहृदैः । श्रीपादलिप्तगुरुभिर्गुरुविद्यामदोज्झितैः ॥ ३४४ ॥ श्रावकाणां यतीनां च प्रतिष्ठा दीक्षया सह । उत्थापना प्रतिष्ठाहद्विम्बानां धुसदामपि ॥ ३४५॥ यदुक्तविधितो बुद्धा विधीयतात्र सूरिभिः। निर्वाणकलिकाशास्त्रं प्रभुश्चक्रे कृपावशात् ॥ ३४६॥ प्रश्नप्रकाश इत्याख्यं ज्योतिःशास्त्रं च निर्ममे। . लाभालाभादिपृच्छासु सिद्धादेशः प्रवर्तते ॥ ३४७॥ अन्यदायुः परिज्ञाय सह नागार्जुने मते । विमलाद्रिमुपाजग्मुः श्रीनाभेयं ववंदिरे ॥ ३४८॥ १ P-द्वेषयेत्. २ P हाहापूत्कारपूर्व ३ P भुवना. ४ P गेहात्. ५ P-वचना. ६P रादेण. ७ P-श्चाथबन्धुरसौ. ८ P नामार्जु.