________________
१७०
प्रभावकचरिते
उक्तंच तेन
मेयनाहि कलुसिएणं इमिणा किंकरफलं निडालेण। इच्छामि अहं जिणवर एणामकिणकलुसियं काउं ॥ ६०५॥ मुमुक्षोर्मम यत्प्राय औचित्यं न विलंघयेत्। तदादिश यथादिष्टं विदधे कर्मनाशकम् ॥ ६०६ ॥ श्रीबप्पभट्टिराहाथ शंका चेत्कर्मणां तव । मनःशुद्धिस्ततः कार्या व्यवहारोऽपि तादृशः ॥ ६०७॥ ततः संन्यस्त एव त्वं जैनमार्ग समाश्रय । श्रुत्वेति तैः सहैवाप्त उदस्थाद्भवनात्ततः॥ ६०८ ॥ आजगामाथ पार्श्वेऽस्य स्तूपे श्रीपार्श्वमन्दिरे। मिथ्यादर्शनवेषं च व्यमुंचत् स्वीकृतं पुरा॥६०९॥ जैनर्षिवेषमास्थाय संयमावारशिष्यकः।। संसारचरमप्रत्याख्यानी ध्यानैकतानभृत्॥६१०॥ अष्टादश तदा पापस्थानान्युत्सृज्य सर्वतः। चतुःशरणमादध्यौ निभृतांतरकल्मषः ॥ ६११ ॥ प्रशंसागर्हणे प्रोच्य सुकृतासुकृते व्यधात् । परमेष्ठिपदाधीनमानसो मानशोषभूः ॥ ६१२॥ दिनान्यष्टादश प्रायमुपायं दुष्कृतार्दने । एकावतारांतरितो महानंदपदस्तदा ॥ ६१३ ॥ सम्यगाराधनोपात्तपांडित्यमृतिरीतितः। देहमुग्द्यां गतः साम्यं प्राप प्राचीनबर्हिषा॥ ६१४ ॥ युग्मम् ॥ ततः किंचित्सखिस्नेहंगद्दः शमिनायकः।
उवाच विश्वसामंतविद्वद्वंदस्य शृण्वतः ॥ ६१५॥ तथाहि
यइ सग्गगए सामंतराय अवरत्ते उन फिटिहइ । पढमं वियवरिय पुरंदराय सग्गस्य लच्छीए ॥ ६१६ ॥ तत्र गोकुलवासेऽस्ति पुरा नंदनिवेशिते ।। श्रीशांतिः शांतिदेवीह हेतुर्विश्वस्य शांतिके ॥६१७॥ तत्र श्रीबप्पट्टि श्रीतीर्थेश्वरनमस्कृतौ। गत्वा च तुष्टुवे शांतिदेवतासहितं जिनम् ॥ ६१८ । जयति जगद्रक्षाकर इत्याचं शांतिदेवतास्तवनम् ।
अद्यापि वर्त्तते तच्छांतिकरं सर्वभयहरणम् ॥ ६१९ ॥ १H omits किंकरफलंनिडालेण. २ H. सिक्षक. ३ P. देहमुक्द्यांगतः. ४ P. स्नेहगणदः.५ म. सामंतः. ६ P. पयइसग्म.