________________
श्रीबप्पभडिप्रबन्धः।
१७१ ततः सामाजिकस्तोमस्तुतो व्यावृत्य संययौ। कन्यकुलपुरं बप्पभट्टिः कतिपयैर्दिनैः ॥ ६२०॥ पुरापि ज्ञानवृत्तान्तो नृपतिर्मूढपूरुषैः।। संमुखीनः पुरोपांतं गत्वा प्रावेशयद्रुतम् ॥ ६२१ ॥ गुरुं सभोपविष्टं च प्राह भूपश्चमत्कृतः। अहोचोवाच सामर्थ्य सोपि यत् प्रतिबोधितः॥ ६२२॥ प्रभुःप्राह च का शक्तिर्मम यत् त्वं न बुध्यसे । राजाह सम्यग् बुद्धोस्मि त्वद्धर्मोस्तीति निश्चितम् ॥ ६२३॥ माहेश्वरं पुनर्द्धर्म मुंचतो मे महाव्यथा । तत्प्राच्यभवसंबद्ध इवायं किं करोम्यतः॥६२४॥ श्रुतज्ञाननिमित्तेन ज्ञात्वा प्रभुरुवाच च । तत्र प्राकृतकष्टस्य राज्यमल्पतरं फलम् ॥ ६२५॥ सविस्मयैस्तदा पर्षत्प्रधानैरोच्यत प्रभुः। प्रसह्य कथ्यतां राज्ञः प्राग्भवोस्मत्प्रबुद्धये ॥ ६२६॥ प्रभुराह ततः सम्यग विमृशेति यथातथम् । प्रश्रचूडामणे शास्त्रादस्ताघज्ञानशेवधिः ॥ ६२७॥ शृणु भूमिपते कालिंजराख्यस्य गिरेरधः। शालिशालगुमोर्द्धस्थेशाखाबद्धपदद्वयः॥ ६२८ ॥ अधोमुखो जटाकोटिसंस्पृष्टपृथिवीतलः। द्यन्हे द्यन्हे मिताहारात् हारी क्रोधादिविद्विषाम् ॥६२९ ॥ इति वर्षशतं साग्रं तपस्तस्वातिदुष्करम् । आयुःप्रान्ते तनु त्यक्त्वाऽभवस्त्वं भूपनायकः॥ ६३०॥ यदि न प्रत्ययो राजन् प्रेषय प्रवरान् नरान् । जटा अद्यापि तत्रस्था आनायय तरोस्तलात् ॥ ६३१॥ इत्याचार्यकथास्मेरो नृपतिः प्रेष्य मानुषान् । जटा अनाययत्तत्र गत्वा नीताश्च तास्ततः॥ ६३२॥ मुनीन्द्रोयं महाज्ञानी कलावपि कलानिधिः । भूपालः कृतपुण्योऽसौ यस्येदृग्गुरुरद्भुतः ॥ ६३३॥ पार्षद्या धूतमूनिस्तद्वत्तोल्लाससंशिनः। पर्युपास्ति दधुः सूरिपादांतभ्रांतमौलयः॥ ६३४ ॥ अन्यदा सौधमूर्द्धस्थो नृपः कुत्रापि वेश्मनि । कलहांतरितां रामां भिक्षायै गृहमागताम् ॥ ६३५॥ १ P. शास्त्रदनाद्यज्ञानसेवधः. D. शास्त्रादस्त्यर्थज्ञा. २ D. द्रुमाह्वस्थ.