________________
१७२
प्रभावकचरिते
जैनभिक्षु परब्रह्मध्यानैकाग्रहसंग्रहम् । वृषस्यन्तीमवज्ञातां तेन निर्गच्छता गृहात् ॥ ६३६॥ बाढं कपाटमाश्लिष्य प्रहारेऽहेः समुद्यते। नूपुरं यतिपादाब्जप्रतिष्ठं कौतुकादिव ॥६३७॥ पश्यन्तीमथ सोत्प्रासां निर्लज्जा कामदामनीम् । गणयत्येष नेत्येवं वदंतीं च तदैक्षत ॥६३८॥ चतुर्भिः कलापकम् । प्राकृतस्याद्य वृत्तस्य पादमेकमुवाच सः। गुरोरने ततोऽवादीत्स प्रागेव पदत्रयम् ॥ ६३९ ॥ तच्चकवाडमा सजवरंगणाए अब्भछिउजुव्वणमत्तियाए। अमन्निए मुक्कपयप्पहारे सनेउरोपव्वइ यस्स पाउ॥६४०॥ युवा भिक्षाचरोन्येद्युःप्रेषितःप्रेयसीगृहे । दृष्टः प्रविष्टो भिक्षायै राज्ञा सौधाग्रचारिणा ॥ ६४१ ॥ आनीयान्नभृतां दींमूर्द्धास्थात्सा तदास्यदृक् । सोपि तन्नाभिसौदर्यासक्तनेत्रस्तथा स्थितः॥६४२॥ एकचित्ततया दानग्रहणास्मरणात्तदा । नृपस्तयोरेकैदृशोर्ध्याने दृष्टेथ वायसैः॥ ६४३॥ विकीर्णे सकलेप्यन्ने विस्मयस्मेरलोचनः। गाथार्द्धमृचिवांस्तत्र यथादृष्टार्थवाचकम् ॥ ६४४॥
ध्यानं पश्यन् जगौस्मितः ? - तद्यथा
भिर क(क्षयरो पिच्छइ नाहिमंडलं सावितस्स मुहकमलम् श्रीबप्पभट्टिाकर्ण्य नृपाग्रे वाक्यमब्रवीत् ॥ ६४५॥ किंगण्यानीदृशान्यस्य पयोधेरिव बुद्बुदाः॥ ६४६॥ दुह्र पिकवालं चट्ठयं, कालाविलुपति । श्रुत्वेति भूपतिस्तुष्टः प्राह कल्याणधीनिधिम् ॥ ६४७ ॥ विना मन्मित्रमेते कः पूरयेन्मवमेक्षितम् । इत्येवं सत्यसौहार्दमार्दवाईनभीतिभूः॥ ६४८ ॥ गुरुवक्रांबुजे नित्यं भृशं भंगीतुलां व्यधात् । एकदा समगादेकच्छेको विश्वकलाश्रयः ॥ ६४९ ॥ चित्रकृच्चित्रकृञ्चित्रकर्मकर्मणि कर्मठः। पूर्वमालिखितं सम्यक्तः कर्पटवारितम् ॥ ६५०॥
- १Pवृषम्पतीमवज्ञातं मेने. २P.दितः. ३ P. दव्वीमूर्द्धास्थात्सातदास्यदक्. ४ P. D. रेकदृशोद्धानपश्यन् जगौ स्मितः. ५ D. मय्यथेक्षितम्.