________________
श्रीबप्पभट्टिप्रबन्धः ।
रेखिनं रंगिवर्णैघपूर्णक्षणमथ स्फुटम् । अलक्ष्यमपि मां चित्रभंगे जीववधाहुवः ॥ ६५१ ॥ इति सत्यापयन् वाचं स जीवकलया स्वया । स त्रयोदशभिर्भागैर्भूपरूपं विधाय तत् ॥ ६५२ ॥ चित्रचूडामणिं राज्ञो दर्शयन् विकटे पटे ॥ राजा सुहृद्गुणग्रामरामणीयकलंपटः ॥ ६५३ ॥ अनास्थया समीक्ष्यास्य ददौ नोत्तरमप्यसौ । एवं त्रिर्विहिते रूपे यदा नोत्तरमाप सः ॥ ६५४ ॥ अवोचत्प्रेक्षकानन्यान्निर्वेदादविदीनगीः । छिनद्मखौ करौ किं वा ललाटं स्फोटये निजम् ॥ ६५५ ॥ कलया नु क्षयं भाग्यहीनस्य मम किं ब्रुवे । बप्पभट्टिः समीक्षस्वेत्युक्तः कैश्विद्दयालुभिः ॥ ६५६ ॥ ततोऽसौ गुरवे जैनं बिंबं कृत्वा करे ददौ । प्राशंसि च ततोऽसौ तैरेष चित्रकलानिधिः ॥ ६५७ ॥ भूपालाग्रेऽथ सोप्यस्य टंकलक्षं ददौ मुदा । श्रीवर्द्धमानबिंबेन भास्वत्पटचतुष्टम् ॥ ६५८ ॥ व्यधापयद्दधाच्चैकं कन्यकुब्जपुरांतरा । मथुरायां तथैकं चाणहिल्लपुर एककम् ॥ ६५९ ॥ सतारकपुरेचैकं प्रतिष्ठाप्य न्यधापयत् । श्रीपत्तनांतरामोढचैत्यांतम्लेच्छभंगतः ॥ ६६० ॥ पूर्वमासीत्तमैक्षंत तदानीं तत्र धार्मिकाः । द्विपंचाशत्प्रबंधाश्च कृतास्तारागणादयः ॥ ६६१ ॥ श्रीबप्पभट्टिना शैक्षकविसारस्वतोपमाः । अथ राजगिरिं दुर्गमन्यदा रुरुधे नृपः ॥ ६६२ ॥ समुद्रसेनभूपालाधिष्ठितं निष्ठितद्विषन् ? | गजाश्वरथपादातपादपातादिसादितैः ॥ ६६३ ॥ शब्दाद्वैतमिव व्योम्नि प्रति (त्य) तिष्ठत्समुन्नतम् । समग्रप्राज्यसामग्रीजाग्रद्व्यग्रपरिग्रहम् ॥ ६६४ ॥ अपि प्रपंचलक्षाभिर्दुर्ब्रहंविग्रहिद्विषाम् । भैरवादिमहामंत्रयष्टिमुक्ताश्मगोलकैः ॥ ६६५ ॥ बाह्यकुट्टिमकुट्टीकैः कुटिताघटातटम् । अभ्रंलिहं द्विषद्भित्तिशिरस्थकपिशीर्षकैः ॥ ६६६ ॥ सैटिंचैः ? क्लेशसंचारं रवेस्तारापतेरपि । १ H. स्वराः. २ P. सभारकपु. ३ H. कूटाकै.
५P.H टिंबै.
१७३
४ Hज्य.