________________
१७४
प्रभावकचरिते सुरंगाशूकरीमुख्यप्रपंचैरपि विद्विषाम् । पतदत्युष्णतैलौघप्लुष्टैर्विफलविक्रमम् ॥६६७॥ षड्भिः कुलकम् । पप्रच्छ बप्पट्टि च निर्वेदादामभूपतिः। कथं कदा वा ग्राह्योयं प्राकारः माघरोपमः॥६६८॥ प्रश्रचूडामणिः शास्त्रात्सुविचार्याब्रवीदिति । पौत्रस्ते भोजनामामुं ग्रहीष्यति न संशयः ॥ ६६९ ॥ अभिमानादसोढेदं राजा तत्रैव तस्थिवान् । वादशभिर्दुदुकस्य सूनोः सुतोऽजनि ॥ ६७० ॥ सच पर्यकिकान्यस्तःप्रधानैर्जातमात्रकः। आनिन्ये तस्य दभोलिरिवशैलच्छिदा विधौ॥६७१ ॥ तदृष्टिर्दुर्गशृंगाग्रे सुखं बालस्य तन्मुखम् । विधायायोन्यतापित्ततैलज्वालाविलासि ? रुक् ॥ ६७२ ॥ सकोट्टः कुट्टिताधस्थरणमंडपमंडलः। स्फुटदट्टालकस्तोमप्रभ्रश्यद्गोपुरादपि ॥ ६७३॥ मृद्यमानमनुष्यस्त्रीगजाश्वमहिषीगवाम् । आत्तोक्रन्दरवैः शब्दाद्वैतं सर्वत्र पोषयत् ॥ ६७४॥ निर्घातक्षुण्णसामान्यपर्वतो महतामपि। गिरीणां प्रददद्भीति न्यपतन्नाकिलोकिनः॥६७५॥
त्रिभिर्विशेषकम् ॥ समुद्रसेनभूपोपि धर्मद्वारा ययौ बहिः । आमनामाथ भूपालः श्रीराजगिरिमाविशत् ॥६७६॥ अधिष्ठाता तु दुर्गस्य यक्षोंगीकृतवैरतः। आमाधिष्ठायिकैः कृष्टप्रतोलीस्थायिनं जनम् ॥ ६७७॥ इति लोकात् परिज्ञाय राजा तत्रागमत्तदा । तमाह प्राकृतं लोकं मुक्त्वा मामेव घातय ॥ ६७८ ॥ इति साहसवाचा स तुष्टो हिंसाग्रहात्ततः। न्यवर्तत प्रशांतात्मा सत्संग उपकारकः ॥ ६७९ ॥ मैत्रं च प्रतिपेदे स यथादिष्टकरः प्रभोः। कियन्मे जीवितं मित्र ज्ञानादृष्टा निवेदय ॥ ६८०॥ षण्मास्यामवशेषायां कथयिष्यामि तत्र च। इति जल्पन् तिरोधत्तावसरे च तदब्रवीत् ॥ ६८१॥ गंगान्तर्मागधे तीर्थ नावा वै तरतः सतः। मकाराद्यक्षरग्रामोपकंठे मृत्युरस्ति ते ॥ ६८२ ॥ १D. पात्स. P. व्यापात्यतापित्त. २ म. प्रभस्या. ३ H. निर्वात. ४ P. मैत्री.