________________
श्रीबप्पभट्टिप्रबन्धः । निर्यभ्रमं जलादृष्ट्वाभिज्ञानं भवता दृढम् । विशेयमुचितं यत्ते तत्प्रेत्यार्थ समाचर ॥ ६८३॥ तीर्थयात्रामसौ मित्रोपदेशादुपचक्रमे । अलसः को हिते स्वस्य नेच्छेत्सद्गतिमात्मनः ॥ ६८४ ॥ प्रयाणैः प्रवणैः पुंडरीकाद्रिं प्राप भूपतिः। युगादिनाथमभ्यर्च्य कृतार्थ स्वममन्यत ।। ६८५॥ ययौ रैवतकाद्रिं च श्रीनेमि हृदि धारयन् । उपत्यकाभुवं प्राप प्राप्तरेखः सुधीषु यः॥ ६८६॥ तीर्थ प्रणन्तुमानेकानैकादश नरेश्वरान् । अपश्यन्नश्यदातको हयायुतपरिच्छदान् ॥ ६८७ ॥ तथैकादशभिः फल्गुवाग्डंबरदिगंबरैः। राक्षसैरिव शाखोटान् कलिनिष्ठरधिष्ठितान् ॥ ६८८ ॥ स्वीकुर्वाणान्महातीर्थ शैलारोहनिषेविनः। असंख्यसैन्यः संख्याय तानाहायदिलापतिः॥ ६८९ ॥ तान् दृष्ट्वा बप्पभट्टिः श्रीसुहृद्भूपालमब्रवीत् । धर्मकर्मोद्यमे युद्धात् प्राणिनः को जिघांसति ॥ ६९०॥ वागाहवेन जेष्यामि विद्वत्पाशानिमान् नृप। नखच्छेद्येऽलिनीखंडे कुठारं का प्रयोजयेत् ॥६९१ ॥ ते जिता वादमुद्रायाममुद्रायासमंतरा। दीपस्य शलभप्लोषे स्तुतिः संस्तूयते हि का॥ ६९२।। ततोपि तानभ्यमित्रानवादीद्विशदांवरः। निर्जयादपि चेयूयं शमिनो न वैतादपि ॥ ६९३ ॥ ..... असंख्यव्यंतराधीशचुंबितांह्रिनखावलिः। अंबा श्रीनेमिपादाजकादंबा शासनामरी ॥ ६९४॥ आत्मनोरुभयोः कन्यायुग्मं व्यत्ययतः स्थितम् ।। देवी तदंतरा येषामेतां संजल्पयिष्यति ॥ ६९५॥ तीर्थ तदीयमेवास्तु यस्यां वाः क्रमतोऽमुतः। समर्पयति तत्कितु वादैरादीनचास्पदैः ॥ ६९६॥ विशेषकम् । उभयाभिमतो जशे व्यवहारोऽयमेतयोः। पक्षयोरक्षयोदग्रप्रभावां चालये ततः॥ ६९७ ॥ ततः कुमारिकां तेषां बप्पभट्टिरिहार्पयत् । द्वादश प्रहरान् यावत्तैमत्रैः साधिवासिता ॥ ६९८॥ एडमुकेच नाहस्म कथंचिदथ तेऽवदन् ।
शक्तिश्चेद्यूयमप्यत्र कन्यां जल्पायताद्य नः॥६९९॥ १ H. परिप्रहात् । २ P. नव्वतादपि । ३ D. घोक्तमुवोमुष.