________________
१७६
' प्रभावकचरिते तन्मूर्तीि बप्पभट्टिश्च कर कमलकोमलम् । ददावंबा च तद्वक्रे स्थिता स्पष्टमुवाच च ॥ ७००॥ उर्जितसलसिहरे दिख्खनाणं निसीहियाजस्य । तं धम्मचक्कट्टि अरिटुनेमि नमसामि ॥७०१॥ ततो जयजयध्वानमिश्रो दुंदुभिरध्वनत् । रोदः कुक्षिभरिः श्वेतांबरपक्षोन्नतिप्रदः॥७०२ ॥ ततः प्रभृति गाथेयं चैत्यवंदनमध्यतः। सिद्धस्तवनकृद्राथात्रितयादूर्द्धमादृता ॥ ७०३॥ शक्रस्तववदाबालांगनापाग्रान्मानिता?। अष्टापदस्तुतिश्चापि श्रुतवृद्धैः पुरातनैः ॥७०४॥ तनो रैवतकारोहात्समुद्रविजयांगजम्। आनासौ महाभक्तो मानयन् जन्मनः फलम् ॥ ७०५॥ दामोदरहरि तत्राभ्यागात् पिंडतारके। तथा माधवदेवे च शंखोद्धारेच तं स्थितम् ॥ ७०६ ॥ द्वारकायां ततः श्रीमान् कृष्णमूर्ति प्रणम्यच । तत्र दानादि दत्त्वा श्रीसोमेश्वरपुरं ययौ ॥७०७॥ ततः श्रीसोमनाथस्य हेमपूजापुरस्सरम् । तल्लोकं प्रीणयामास वासवो जीवनैरिव ।। ७०८॥ पुरः स्वं नगरं प्राप श्रीमानाम महीपतिः। यादृच्छिकं ददौ दानं धर्मस्थानानि च व्यधात् ॥७०९ ॥ प्राप्ते काले सुतं राज्ये दुंदुकं संन्येवशयत् । प्रकृतीः प्रक्षमयामास पूर्वमानंदिता अपि ॥ ७१०॥ प्रयाणं दत्तवान् गंगासरित्तीरस्थमागधम् ।। तीर्थ जिगमिषुर्नावमारूढश्च तदंतरा॥ ७११ ॥ सूरिणा सह तन्मध्ये दृष्टवान् धूमनिर्गमम् । उपगंगं जनाजशे मगटोडानिवेशनम् ॥ ७१२ ॥ प्रतीते व्यंतराख्याते सूरिराहामभूपतिम् । जैनधर्म प्रपद्यस्व प्रांतेऽपि प्रत्ययोस्ति चेत् ॥ ७१३ ॥ राजाह प्रतिपन्नोस्मि सर्वज्ञः शरणं मम । देवो गुरुर्ब्रह्मचारी धर्मश्चेत्कृपयोदितः ॥ ७१४॥ देवो गुरुश्च धर्मश्च यश्चके व्यावहारिकः ।
इयहिनानि सोत्यार्जि मम त्रिविधशुद्धितः ॥ ७१५॥ .१ P. शक्रसूववदाबालांमनापाव्यात्रमानिता D. स्तववदावाला गतायामात्र मानिना. २ D. मगटोडानिवेशन. ३ H. गुऊ. ४ D. H. त्याजि.