________________
श्रीबप्पभट्टिप्रबन्धः ।
१७७
मम सौदाईतः पूज्यपादानामपि सांप्रतम् । विधिवद्विग्रहत्याग इह वो नोचिता स्थितिः॥ ७१६॥ परत्रापि यथा लोके समस्यापूरणादिभिः। कालोऽतिवाह्यते सौख्यान्मिलितैरेव निश्चितम् ॥ ७१७॥ श्रुत्वेत्याह प्रभुर्मुग्धवागिय स्वस्वकर्मभिः । कस्कः कां कां गतिं गंता बुद्ध्यते को जिनं विना ॥ ७१८॥ युक्तमेतद्रतस्थानां नात्मप्राणापरोपणम् । तथातः पंचवर्षाणि ममाद्याप्यायुरस्ति च ॥ ७१९॥ विक्रमतो वर्षाणां शताष्टके सनवतौ च भाद्रपदे । शुक्रे सितपंचम्यां चन्द्रे चित्राख्यऋक्षस्थे ॥ ७२०॥ तुलाराशौ तथा चंद्रस्थितेऽर्के प्रहरेंऽतिमे। श्राव्यमाणो भृशं पंचपरमेष्ठिनमस्क्रियाम् ॥ ७२१॥ दृढं जिनेशसन्मित्रगुरुपादस्मृतिस्थितः। श्रीमान्नागावलोकाख्यो राजा प्राप दिवं तदा ॥ ७२२ ॥
विशेषकम् । अथ किंचित्सुहृन्मोहात्तत्र स्थित्वौ देहिकम् ।। कारयामास पार्श्वस्थः प्रधानस्तत्सनाभिभिः ॥ ७२३॥ किंचिच्छोकोर्मिसंतप्त उवाच करुणं तथा।
सोद्वेगं च तदीयानां गुणानां संस्मरन् भृशम् ॥ ७२४॥ माभूत्संवत्सरोऽसौ वसुशतनवतेर्मा च ऋक्षेषु चित्रा धिग्मासं तं नभस्यं क्षयमपि स खलः शुक्लपक्षोपि यातु । संक्रांतिर्या च सिंहे विशतु हुतभुजं पंचमी या तु शुक्र गंगातोयाग्निमध्ये त्रिदिवमुपगतो यत्र नागावलोकः ॥ ७२५ ॥
अथ श्रीबप्पभट्टिश्च कन्यकुब्जं मुनीश्वरः। प्राप दुंदुकभूपालाधिष्ठितं तन्निरुद्यमः ॥ ७२६॥ सक्तः कंद्याख्यवेश्यायां भूपो भोजं निजं सुतम् । भाग्योदयकलाकेलिविलासमपि पापभूः ॥ ७२७ ॥ अतिद्रुह्यति मूढस्तद्वाभिर्विगतचेतनः। अविवेकधराधुर्य धिर वेश्याजनसंगमम् ॥ ७२८॥ युग्मम् ॥ तन्माता निजबंधूनां ज्ञापयामास दुःखिता। संकटे हि कुलस्त्रीणां शरणं शरणं पितुः ॥७२९ ॥ समागत्याह्वयन् ते च पुत्रजन्मोत्सवच्छलात् । आपृच्छायै पुनर्भोजः संचचार नृपालये ॥ ७३०॥ शापितो गुरुभिः सौधद्वारे विज्ञाय शत्रिणः। निवृत्तो मातुलैः साकं प्रययौ पाटलीपुरम् ॥ ७३१॥