________________
प्रभावकचरिते
आचार्यमन्यदा राजा दुंदुकः प्राह मत्सरी । मयि प्रसादमाधाय नीयतां नंदनोत्तमः ॥ ७३२ ॥ ततः स ध्यानयोगादिप्रारंभैरुत्तरोत्तरैः । वाहयामास वर्षाणि पंच पंचत्ववासरम् ॥ ७३३ ॥ ततोथ समये प्राप्ते राजा दृढतरं गुरुः । उपरोध्य सुताह्वानहेतवे प्रैष्यतादरात् ॥ ७३४ ॥ aat नगराभ्यासे विममर्श च चेतसि । चेद्भोजो नीयते यस्मात्तनृपेण स हन्यते ॥ ७३५ ॥ नोचेत्कंटिकया बाढं मूर्खोसाविति संहितः । शिष्याणां चिद्रवैः कर्त्ता शासनस्याप्रभावनाम् ॥ ७३६ ॥ सांप्रतं सांप्रतं मृत्युस्तस्मात्प्रायोपवेशने । तच्च कृत्वातिगीतार्थकारिताराधनादृतः ॥ ७३७ ॥ स्वयमध्यात्मयोगेन दिनानामेकविंशतिः । अतिवाह्य क्षुधातृष्णानिद्रादिद्वेषिविग्रही ॥ ७३८ ॥ आत्मानं दशमद्वारान्निरवासयदुद्यतः ।
१७८
ईशाने नाकितां प्राप बप्पभट्टिर्मुनीश्वरः ॥ ७३९ ॥ विशेषकम् ॥ विक्रमतः शून्यद्वयवसुवर्षे ( ८०० ) भाद्रपदतृतीयायाम् । रविवारे हस्तक्षै जन्माभूद्वप्पभट्टिगुरोः ॥ ७४० ॥ षड्वर्षस्य व्रतं चैकादशे वर्षे च सूरिणा । पंचाधिकनवत्या च प्रभोरायुः समर्थितम् ॥ ७४१ ॥ शरनंदसिद्धिवर्षे ८९५ नभः शुद्धाष्टमीदिने । स्वातिभेजनि पंचत्वमामराजगुरोरिह || ७४२ ॥ इत्याकर्ण्यमराजस्य पौत्रोऽतिस्फारशोकभूः । भोजः संकुचितां भोजवदनं विललाप च ॥ ७४३ ॥ विवेकौघेऽविवेकेन जितः सारस्वतं हितम् । अनुत्सेकस्तिरोधत्त ज्ञाने दत्तो जलांजलिः ॥ ७४४ ॥ इति क्षणं विमृश्यासावादिदेश चिताकृते । प्रेष्यानदूष्यचारित्रो गुरुभक्तिपवित्रितः ॥ ७४५ ॥ पितामहवियोगेपि वर्द्धितस्तस्य मित्रतः ।
अनाथ इव लोकेऽत्र तत्रापि त्रिदिवं गते ॥ ७४६ ॥ ततः क्षणमपि स्थातुं न शक्तः पृथिवीतले । पितृवत्तु सुहृत्सूरेरनुव्रज्याधुनोचिता ॥ ७४७ ॥ मातृपक्ष प्रधानानां बोधं चावगणय्य सः । गुरुमृत्युभुवं प्राप गंता लीलावने यथा ॥ ७४८ ॥ भुजदंडे जनन्या च धृत्वाथाजल्पि तत्क्षणम् । निर्वारत्वे निषेधाय राज्यस्य कृपयापि च ॥ ७४९ ॥