________________
श्रीबप्पभट्टिप्रबन्धः ।
स्वसुरद्वयसंहारे जाते ते विद्विषत्पिता । जितंमन्यो महापापी त्वत्प्रजाः पीडयिष्यति ॥ ७५०॥ हृदयालुः कृपालुश्च तत्त्वं प्रार्थनया मम । कर्मतो विरमामुष्मात् हृदानंदन नन्दन ॥ ७५१॥ इति मातुरलंध्यत्वात् श्रीभोजः साश्रुलोचनः । उत्तरीयं निचिक्षेप चितायां गुरुपृष्ठतः ॥ ७५२॥ अस्तोकशोकसंभारधारणक्लांतदेहरुक् । ऊवं देहिकमाधत्त कृत्यं पैतामहं प्रभोः ॥ ७५३ ॥ अन्यदा मातुलैः साकमाकस्मिकदवोपमः। तातं शमयितुं प्रायात्कन्यकुब्जमचिन्तितः॥ ७५४॥ प्रतिष्ठो गोपुरेणाथ द्राग्राजद्वारसंनिधौ । मालाकारं ददर्शाथ बीजपूरत्रयान्वितम् ॥ ७५५॥ तेन ढोकनकं स्वामिपुत्रस्यास्य कृतं तदा । तं गृहीत्वा ययावंतः सौधं रोधं दिशत्विषम् ॥७५६॥ सह कंटिकया तत्रोपविष्टं प्रवरासने । जघान हृदये घातैस्त्रिभिस्तै/जपूरकैः ॥ ७५७॥ महाप्राणकृताघातादुभौ प्राणैर्वि(व्य)युज्यताम् । प्रागृध्यातपुत्रहत्यांहोभीतैरिव विनिर्गतैः ॥ ७५८ ॥ अपद्वाराबहिः कृष्ट्रा क्रोष्टारमिव वेश्मनः। दुंदुकं कंदुकस्थित्या क्रीडया प्रेषितं नरैः॥ ७५९ ॥ निस्वानस्वानपूर्व सोऽविशत्कंठीरवासने । प्राणतः सर्वसामंतैः सपोरैर्मत्रिभिस्तथा ॥ ७६०॥ श्रीमदामविहाराख्यतीर्थ नंतुं ययौ नृपः। तत्र शिष्यद्वयं दृष्टं बप्पभट्टेमहामुनेः ॥ ७६१ ॥ विद्याव्याक्षेपतस्ताभ्यां न चक्रे भूमिपोचितम् । अभ्युत्थानादिसन्मानं श्रीभोजोऽथ व्यचिंतयत् ।। ७६२ ॥ अज्ञातव्यवहारौ हि शिष्यावेतौ प्रभोः पदे। न युज्यते यतो विश्वव्यवहारो महत्वभूः॥७६३॥ श्रीनन्नसूरिराचार्यः श्रीमान् गोविंद इत्यपि । आहूय पूजितौ राज्ञा पट्टे च स्थापितौ प्रभोः ॥ ७६४ ॥ मोढेरे प्रहितो ननसूरिः सूरिगणोन्नतः। पार्श्वे गोविंदसूरिश्वावस्थाप्यत नृपेण तु ॥ ७६५ ॥ भोजराजस्ततोऽनेकराज्यभ्रष्टग्रहग्रहः।
आमादभ्यधिको जज्ञे जैनप्रवचनोन्नतौ ॥ ७६६॥ १ P. दिशन्विशां. २ H. भ्रष्ट. ३ H. प्रवचनोन्नतः.