________________
१८०
प्रभावकचरिते बप्पभट्टिभद्रकीर्तिर्वादिकुंजरकेसरी। ब्रह्मचारी गजवरो राजपूजित इत्यपि ॥ ७६७ ॥ विख्यातो बिरुदै नशासनक्षीरसागरे । कौस्तुभः कृतसंस्थानः पुरुषोत्तमवक्षसि ॥ ७६८ ॥ जयताजगतीपीठे धर्मकल्पद्रुमांकुरः। इदानीमपि यन्नाममंत्रो जाड्यविषापहः ॥ ७६९ ॥
त्रिभिर्विशेषकम् । इत्थं श्रीबप्पभट्टिप्रभुचरितमिदं विश्रुतं विश्वलोके प्रारविद्वत्ख्यातशास्त्रादधिगतमिह यत् किंचिदुक्तं तदल्पम् । पूज्यैः क्षंतव्यमत्रानुचितमभिहितं यत्तथा तत्प्रसादात् एतत्सर्वाभिगम्यं भवतु जिनमतस्थैर्यपात्रं ध्रुवं च ॥ ७७० ॥ श्रीचंद्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभा
चंद्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहणगिरौ श्रीबप्पभट्टे कथा श्रीप्रद्युम्नमुनीन्दुना विशदितः शृंगः किलैकादशः ॥७७१॥ दुष्कर्मजैत्रः पुरुषोत्तमांगा
जन्माविशुद्धाक्षरहेतुमूर्तिः। गिरीशतुंगाध्वपुरस्थितश्रीः प्रद्युम्नदेहः शिवतातिरस्तु ॥ ७७२ ॥ ग्रंथा । ८४० ॥ उभयं । २९६० ॥
श्रीमानतुंगप्रबन्धः। श्रीकन्यकुब्जक्षितिपप्रबोध___ कर्तुंस्तथा पूर्वगतश्रुतेन । विश्वे समस्या नवपाठबंधैः
श्रीभद्रकीर्तेर्नरिनर्ति कीर्तिः ॥१॥ प्रभोः श्रीमानतुंगस्य देशतायां रदत्विषः । जयति ज्ञानपाथोधिशारदंदुसहोदराः॥२॥ नित्यं योजनलक्षेण वर्णनीयः सुवर्णरुक् । मानतुंगः प्रभुः पातु मेरुः सौमनसाश्रितः॥३॥ अस्यैवावाहमैतिहमप्रणाय्यं जगत्यपि। निकाय्यं तीर्थशृंगारप्रकर्षस्य प्रकीर्तये ॥४॥ १ ग्रंथा० ८२० उभयं २९४०.