________________
श्रीमानतुंगप्रबन्धः । सदासुरसरिद्वीचीनिचयाचांतकश्मला । पुरी वाराणसीत्यस्ति साक्षादिवदिवःपुरी ॥५॥ आसीत् कोविदकोटीरमर्थिदारियपारभूः। तत्र श्रीहर्षदेवाख्यो राजा नतु कलंकभृत् ॥ ६ ॥ ब्रह्मक्षत्रियजातीयो धनदेवाभिधः सुधीः । श्रेष्ठी तत्राभवद्विश्वप्रजाभूपार्थसाधकः ॥ ७ ॥ तत्सुतो मानतुंगाख्यो विख्यातः सत्वसत्यभूः। अवशातपरद्रव्यवनितावितथाग्रहः ॥८॥ संतीह मुनयो जैना नग्ना भग्नस्मराधयः । तञ्चैत्ये जग्मिवानन्यदिवसे विवशेतरः॥९॥ वीतरागप्रभुं नत्वा गत्वा गुरुपदांतिकम् । प्राणमद्धर्मवृद्ध्याशीर्वादेन गुरुणार्हितः ॥१०॥ महाव्रतानि पंचास्योपादिशन्नग्नतां तथा । ऊर्णकर्पासकौशेयशौचावृत्तिनिषेधतः ॥११॥ इत्याद्यनेकधा धर्ममार्गाकर्णनतस्तदा । वैराग्यरंगिणो मानतुंगस्य व्रतकांक्षिणः ॥ १२॥ तन्मातापितरौ पृष्ट्वा चार्यस्तस्य व्रतं ददौ । चारुकीर्तिमहाकीर्तिरित्यस्याख्यां ददौ च सः॥१३॥ स्त्रीणां न निर्वृतिर्मान्या मुक्तिः केवलिनोपिहि । द्वात्रिंशदन्तरायाणि बुबुधे च बुधेश्वरः ॥ १४ ॥ कृतलोचस्ततो हस्तस्थिततोयकमण्डलुः। स त्यक्तसर्वाभरण इर्यासमितिसंयुतः॥ १५॥ गृहस्थावसथोईस्थावस्थानकृतभोजनः । मायूरपिच्छिकाहस्तो मौनकालेषु मौनवान् ॥ १६॥ सदा निःप्रतिकसिौप्रतिक्रमणयोर्द्वयोः। दक्षो गुरुकनीयश्चेदुःकरं कुरुते व्रतम् ॥ १७॥ विशेषकम् ॥ अस्य स्वनृपतिर्लक्ष्मीधरो लक्ष्मीवरस्थितिः। आस्तिकानां शिरोरत्नमत्रासीद्विस्फुरद्यशाः ॥१८ ॥ दृढभक्त्या स चार्यार्थमन्यदाप्यनिमंत्रितः। महर्षिस्तेन कालेन मध्येतगृहमागमत् ॥ १९॥ अशोधनप्रमादेनानुसंधानाजलस्य च । नैके संमूर्छितास्तत्र पूतरास्तत्कमंडलौ ॥ २०॥ गंडूषार्थमृषिर्यावञ्चलके जलमाददे । ददर्श तान् स्वसा प्राह लीना श्वेतांबरखते ॥२१॥ १H. रतः. २ H. शाम्बा.
16