________________
१८२
प्रभावकचरिते
व्रते कृपारसः सारस्तदमी द्वींद्रियास्त्रसाः। विपद्यते प्रमादाद्वस्तजैनसदृशं नहि ॥ २२ ॥ लज्जावरणमात्रेऽत्र वस्त्रखण्डे परिग्रहः। ताम्रपात्रे कथं न स्याद्यादृच्छिकमिदं किमु ॥२३॥ धन्या श्वेतांबरा जैनाःप्राणिरक्षार्थमुद्यताः। न सन्निद्धते नीरमपि रात्रौ क्रियोद्यताः ॥ २४ ॥ अचेलाश्च सचेलाश्च नावधारणदुर्नयम् । आद्रियन्तस्म निःसङ्गाः परमार्थकृतादराः॥२५॥ पञ्चाश्रवेद्रियार्थानां? परिहारपरायणाः । गुप्तिभिस्तिसृभिर्गुप्ता स्थितिः समितिपंचके ॥ २६ ॥
त्रिभिर्विशेषकम् ॥ इत्याकर्ण्य मुनिः प्राह प्रांजलं शृणु मद्वचः। गृहवासपरित्यागो मया पुण्यार्थिना कृतः॥२७॥ आस्तामन्यः समाचारो यत्र जीवदयापि न । तेन धर्मेण किं कुर्वे श्रीसर्वशविरोधिना ॥ २८ ॥ अत्र देशे समायांति दुःप्राया श्वेतभिक्षवः। सा प्राह मध्यदेशात्ते समायास्यंति सांप्रतम् ॥ २९॥ सांगत्यं कारयिष्यामि तव तैः सह निश्चितम् । तपसा निर्मलेनाशु भवं पावयसे यथा ॥३०॥ इदानीं वापि कूपादौ रहो जलमिदं त्यज । शासनस्य यथा म्लानिन भवेल्लघुताकरी ॥३१॥ विराधना पुनर्जीवगणस्यात्र भवेद्भवम् । अपरापरनीरोत्थजीवा अन्योन्यविद्विषः ॥ ३२॥ श्रुत्वेति तद्वचोऽकार्षीभृशं विप्रतिसारतः। भोजितः परया भक्त्या बोधितश्चाश्रयं ययौ ॥ ३३ ॥ अन्यदा जिनसिंहाख्याः सूरयः पुरमाययुः । पुरा श्रीपार्श्वतीर्थेशकल्याणकपवित्रितम् ॥ ३४॥ गंगातीरस्थमुद्यानमुद्दामं शिखरिबजैः। शिश्रियुनिसंयुक्तास्त्रिदशा इव नन्दनम् ॥ ३५॥ तया च शापिते श्राद्धकांतया सोदरो मुनिः। श्रुत्वा समाययौ तत्र गुरूणां संगतस्तदा ॥ ३६॥ पर्वर्षिभिः समाचीर्णा सामाचारी न्यवेद्यत । तैस्तद्द्व पीयूषवत् साऽथा(दसावा)दृतोऽशृणोत् ॥ ३७॥ १ भरः. २ म. प्रायः ३ HP. करा. ४ P. जित. ५ P. वज्ञापिते श्राद्धकातया ६ P. चार्णा समाचारीत्यवेद्यतः ७ P. वत्तांसो