________________
श्रीमानतुंगप्रबन्धः ।
१८३. गुरुभिर्दीक्षितश्चासौ नदीष्णोग्रेपि च क्वचित् । । तपस्याविधिपूर्व चागममध्याप्यतादरात् ॥ ३८॥ ततः प्रतीतिभृत्सम्यक्तपःश्रुतसमर्जनात् । योग्यः सन् गुरुभिः सूरिपदे गच्छादृतः कृतः॥ ३९ ॥ क्लिष्टकाव्यभ्रमिश्रांता देवी वाचामधीश्वरी। यद्वचोऽमृतसंसिक्ता परमानंदभूरभूत् ॥४०॥ स तदातनकालीयलीनज्ञानक्रियोन्नतिः। अभूदभूमिरुन्निद्रोपद्रवांतरविद्विषाम् ॥४१॥ इतश्च पुरि तत्रासीद्वेदवेदांगपारगः। विरंचिरिव मूर्तिस्थो भूदेवः पार्थिवार्चितः॥४२॥ कोविदानां शिरोरत्नं मयूर इति विश्रुतः। प्रत्यार्थिसर्पदाणां मयूर इव दर्पहृत् ॥४३॥ युग्मम् ।। दुहिता सुहिता रूपशीलविद्यागुणोदयैः । तस्य सत्या उमागंगालक्ष्मीदेव्यो यदीक्षणात् ॥४४॥ पंके पंकजमुज्झितं कुवलयं चापारनीरे हदे । बिंबी चापि वृतैर्बहिः प्रकटिता क्षिप्तः शशी चांबरे । यस्याः पाणिविलोचनाधरमुखान्वीक्ष्य स्वसृष्टिविधेरुच्छिष्टेव पुरातनी समभवद्देवाद्विधायेह ताम् ॥ ४५ ॥ अद्भुतं कुलरूपायैस्तस्याः समुचितं वरम् । सर्वत्रालोचयन् सम्यगप्राप्तावार्तिमासदत् ॥४६॥ तर्कलक्षणसाहित्यरसास्वादवशैकधीः। अनूचानो महाविप्रो बाणाख्यः प्राग्गुणान्वितः॥४७॥ प्रख्यानवक्तकः कामाभिरामाकारधारकः । दृष्टे तत्र मयूरोभूदारिद्राडंबरे यथा ॥४८॥ संमान्योद्वाहयामास तां सुतां नैव वैभवात् । अनुरूपवरप्राप्तिः सुता पित्रापि दुस्त्यजा॥४९॥ यत्र श्रीहर्षदेवस्य दर्शितो दुःहितुः पतिः। आशिषोदितया तस्योदितया तोषमाप च ॥५०॥ तस्या वासः पृथक् चक्रे धनधान्यादिसंभृतः। एवं राजार्दि (हि) तौ तौ द्वौ संगत्य प्रापतुः सदा ॥ ५१ ॥ बाणोन्यदा समं पत्त्या स्नेहतः कलहायितः । सिता हि मरिचक्षोदादृते भवति दुर्जरा॥५२॥ पितुर्ग्रहमगाद्रुष्टा बाणपत्नी मदोद्धरा।
सायं तद्गहमागत्य भर्ती प्राहानुनीतये ॥५३॥ १ P. वीक्षि.