________________
१८४
प्रभावकचरिते तद्यथा-मानं मुंच स्वामिनि शत्रु जगतो विनाशितस्वार्थम् ।
सेवककामुकपरभवसुखच्छवो नावलेपभृतः॥ ५४॥ वासागाराद्वहिः प्रेष्य पंडितं तां सखी जगौ।
वाग्भंगीभिस्ततो मानामुचितस्यामहोवदन् ? ॥ ५५ ॥ उक्तं च-लिखन्नास्ते भूमि बहिरवनतः प्राणदयितो
निराहाराः सख्यः सततरुदितोच्छूननयनाः। परित्यक्तं सर्व हसितपठितं पारशुकै
स्तवावस्था चेयं विसृज कठिने मानमधुना ॥५६॥ विलक्षीभूय साथाह बहिरागत्य कोविदम् । भवने प्रविशामोऽस्या मुक्त्वा वयमुपानहौ ॥ ५७॥ एतस्यां मौनमालंब्यावस्थितायां पुनस्ततः।
विद्वान्(न)विद्वन्मन्योसौ बहुप्रातर्जगाद च ॥ ५८॥ तद्यथा-गतप्राया रात्रिः कृशतनु शशी शीर्यत इव
प्रदीपोयं निद्रावशमुपगतो घूर्णत इव । प्रणामान्तो मानस्तदपि न जहासि क्रुधमहो
कुचप्रत्यासत्या हृदयमपि ते सुभ्र कठिनम् ॥ ५९॥ तद्भित्तिपरतः सुप्तोवकाशे तत्पिता तदा । जजागारातिसंभ्रांतः काव्यं श्रुत्वेत्युवाच च ॥ ६ ॥ स्थाने त्वं सुभ्रुशब्दस्य चंडीत्याख्यामुदाहर। यतोऽस्या दृढकोपायाः शब्दोयमुचितः खलु॥६१॥ इत्याकर्ण्य पितुर्वाचं लजाभरनतानना। विममर्श निशावृत्तं विश्वं मे जनकोऽशृणोत् ॥ ६२॥ . धिग्मां मूर्खामविशातकारिणीमित्यकुत्सयत् । आत्मानं सा ततो वपूर्य(पूर्वम)मर्षेच व्यधाद् धनम् ॥ ६३ ॥ मदं मुक्त्वा च सा प्रेम भर्तरि स्थिरमादधौ । गंगा हिमवतो गर्जे यथा शीतांशुशेखरे ॥ ६४ ॥ अहो शैशवतो भ्रांता यद्यसौ विद्वदग्रणीः। जनकोनुचिताधायी विमंदाक्षः कथं किल ॥६५॥ इदं किमुचितं वक्तुं कुलीनानां हि तादृशैः। . मातृवसूदुहितॄणामवाच्यं नहि वाच्यभूः ॥ ६६॥ शशाप कोपाटोपेन पितरं प्रकटाक्षरम् । कुष्ठी भव क्रियाभ्रष्टावज्ञातो रसनात्रकः॥ ६७ ॥ तस्याः शीलप्रभावेण सद्यः श्वेतांगचंद्रकैः।। कलाप्यग्रे मयूरोग्रे तदा जज्ञे स चंद्रकी ॥ ६८॥ १ HP. मदो D सुचिक. २ D. गर्ज. ३ D. शा. ४ PH. तौ.