________________
श्रीमानतुंगप्रबन्धः।
१८५ सागानिजगृहं बाणे बिभ्रती संक्तिमादरात् । पितुर्दुर्वचनं तस्याः सान्त्वनाय तदाभवत् ॥ ६९ ॥ सद्यः कुष्ठं तदालोक्य पश्चात्तापातिविह्वलः। अवाड्मुखो गृहे खेऽस्थान ययौ राजपर्षदि ॥ ७०॥ पंचषान् वासरान्नासौ जगाम क्षमापमंदिरे । बाणोपि कुपितस्तस्य बहून्दोषानभाषत ॥ ७१॥ भोगिभोगविनाशैकप्रतिज्ञो मलिनांगभृत् । सुहृत्समागमे लज्जास्थानं प्रकटयन् सदा ॥ ७२ ॥ असौ मेघसुहृन्मेघसुहृञ्चंद्रकितस्तनौ। चित्रंचिंत्रात्सभायोग्यो भूपानां नैनसां निधिः ॥ ७३ ॥ राजा श्रुत्वेति किं सत्यं मयूरः कुष्ठदूषितः। इति चित्रात्समाहूतवांस्तं निजनरैः प्रभुः॥ ७४॥ कृतावगुंठनः पद्यः ससंवीतांगमंडनः। उपभूपतिमागच्छदनिच्छन्स्थानमत्र च ॥ ७५॥ बाणेनोचे स्फुटं दृष्ट्वा मयूरं प्राकृतादथ । शीतरक्षांगसंव्यानं वरकोटीति संसदि॥७६॥ पुनर्निजं गृहं गत्वा व्यमृशञ्चेतसि स्थिरम् । कलंकपंकिलानां हि नोचिता सुहृदां सभा ॥ ७७॥ सहक्रीडितसंघेऽस्मिन् ये तिष्ठंत्यंकशंकिताः। भूखगछिन्नमेते किं खं मूर्धानं न जानते ॥ ७८ ॥ वैराग्यात्त्यज्यते देहः सतां तदपि नोचितम् । दुःखानामसहिष्णुत्वात्स्त्रीवत्कातरता हि सा॥ ७९ ॥ सुरः सनातनः प्रीतिहार्यः कश्चित्कलानिधिः। आराध्यते प्रसादेन यस्य देहो नवो भवेत् ॥ ८०॥ सहस्रकिरणः कर्मसाक्षी ध्येयो मयास्य यत् । दृश्येते सफले साक्षादाराधनविराधने ॥ ८१॥ षट्पारं रज्जुयंत्रं सोऽवलंब्यात्रोपविष्टवान् । गर्त च खदिरांगारैरधोऽर्चिभिरपूरयत् ॥ ८२॥ शार्दूलवृत्तमेकैकमुक्त्वा शस्त्रिकयाच्छिनत् । पामेवं च काव्येषु पंचसूक्तेन कृष्टिना ॥ ८३॥ छिंदतः शेषपादं च मार्तडो व्यक्ततेजसा । आगत्यास्य द्दौ देहं मंच विध्यापितोऽनलः ॥ ८४॥ काव्यानां शततः सूर्यस्तुतिं संविदधे ततः। देवान् साक्षात्करोतिस्म येषामेकमपि स्मृतम् ॥ ८५॥
१ म. भक्ति. २ PH. त्रचि.