________________
१८६
प्रभावकचरिते
श्री भानु स्तोषतस्तस्य नीरुजं देहमातनोत् । सार्द्धषोडशवर्णि (वार्षि) क्यं दीप्यत्कनकभास्वरम् ॥ ८६ ॥ प्रातः प्रकटदेहोऽसावाययौ राजपर्षदि । श्रीहर्षराजः पप्रच्छासीत्ते किं रुग्नवा वद ॥ ८७ ॥ आसीदेव परं ध्यातः सहस्रकिरणो मया । तुष्टो देहं ददावद्य भक्तेः किं नाम दुष्करम् ॥ ८८ ॥ तदा च बाणपक्षीयैः सासूयैरिव पंडितैः । जगदे किंचिदत्युग्रं वाग्वृत्तश्रुतितः स्फुटम् ॥ ८९ ॥ तथाहि यद्यपि हर्षोत्कर्षे विदधति मधुरा गिरो मयूरस्य । बाणविजृंभणसमये तदपि न परभागभागिन्यः ॥ ९० ॥ राजाह सत्यमेवेदं गुणी गुणिषु मत्सरी । यूयमत्रापि सासूया ब्रूमहे वयं किमु ॥ ९१ ॥ वैद्यौषधं विना येन प्रांजलेनैव चेतसा । सूर्य आराधितो भक्त्या कवित्वैर्देहमातनोत् ॥ ९२॥ परितोषं परं प्राप सविता यद्वचःक्रमैः । के वयं मानुषास्तत्राहारादिकलुषाकुलाः ॥ ९३ ॥ बाणः प्राह प्रभो प्रायः कृतपक्षं किमुच्यते । अस्य कः किल शृंगारो देवस्यातिशये स्फुटे ॥ ९४ ॥ एवंजातीयमाश्चर्यातिशयं कोपि दर्शयेत् । अपरो यदि चेच्छक्तिः कः प्रत्यर्थी शुभायतौ ॥ ९५ ॥ इति राज्ञो वचः श्रुत्वा बाणः प्राहातिसाहसात् । हस्तौ पादौ च संच्छिद्य चंडिकावासपृष्ठतः ॥ ९६ ॥ मां परानयतु स्वामी तत्र मुक्तोत्थितः स्थिरम् । यथा युष्मादतिप्रौढि प्रातिहार्य प्रतिश्रये ॥ ९७ ॥ अवादी मयूरोपि तथाप्यस्यानुकंपया । - प्र भूपालमकार्षीरेनमीदृशम् ॥ ९८ ॥ यतो मद्दुहितुः कष्टं यंगशुश्रूषणा भवेत् । आजन्म तन्ममाभीलं विलगेत प्रभो दृढम् ॥ ९९ ॥ श्रुत्वा च भूपतिर्भक्तिं मयूरे बिभ्रदद्भुताम् । बाणे कोपं वहन् प्राह तथा कौतूहलं महत् ॥ १०० ॥ कर्त्तव्यमेव बाणस्य गीः प्राणस्य कवेर्वचः । पाणिपादं नवं चेत्स्यादस्य स्फारं तदा यशः ॥ १०१ ॥ अन्यथा चेत्तदास्फारवचसा भज्यते मणिः । यदृच्छावचसां नावकाशो राशां हि पर्षदि ॥ १०२ ॥
युग्मम् ॥