________________
श्रीमानतुंगप्रबन्धः ।
१८७ अथवा सूर्यमाराध्य त्वमेनमपि पंडितम् । विमदं निर्विषं नागमिव प्रगुणमाचरे ॥ १०३॥ उक्त्वा चैवं कृते राज्ञा चंडी स्तोतुं प्रचक्रमे । बाणकाव्यैरतिश्रव्यैरुद्दामाक्षरडंबरैः ॥ १०४॥ ततश्च प्रथमे वृत्ते निवृत्ते सप्तमेऽक्षरे । समाधौ तन्मुखी भूत्वा देवी प्राह वरं वृणु ॥ १०५॥ विदेहि पाणिपादं मे इत्युक्तिसमनंतरम् । संपूर्णावयवे शोभा प्रत्यग्र इव निर्जरः ॥ १०६॥ महोत्सवेन भूपालमंदिरं स समीयिवान् । . ... राज्ञा पुरस्कृतौ प्रातिहायेऽस्थातामुभावपि ॥१०७॥ ततो विवदमानौ च निवर्त्तते पुरा क्रुधा। भूप एवं ततः प्राह निर्णयो नानयोरिह ॥ १०८ ॥ वाग्देवी मूलमूर्तिस्था यत्रास्ते तत्र गम्यताम् । उभाभ्यामपि काश्मीरनिवृत्तिप्रवरे पुरे ॥ १०९॥ जयः पराजयो वास्तु स्वामिन्यैव कृतोऽनयोः। प्रत्यवायं सचैतन्यः को हि वस्यानुषंजयेत् ॥ ११०॥ यः पराभूतिमाप्नोति तद्रंथाः प्रांगणे मम। प्रज्वाल्य पुस्तकस्तोमं विनाश्या अस्त्वसौ पणः ॥ १११ ॥ ताभ्यामभ्युपयाते च व्यवहारेऽथ पंडितः। उभौ तत्र प्रतिस्थाते राजमत्यैः सहार्दि(हि)तौ ॥ ११२ ॥ तावल्पेनापि कालेन प्रयाणैरविखंडितः । आसेदाते पुरं ब्राह्मी ब्रह्माद्भुतपवित्रितम् ॥ ११३॥ आराधयांबभूवाते तपसा दुष्करेण तौ। तुष्टा देवी परीक्षार्थ तौ पृथकृत्य दूरतः ॥ ११४॥ समस्यापदमप्राक्षीत्तूर्णमापूरितेन च । अपरेणापि संपूर्णा तथैवाक्षरपंक्तिका ॥ ११५॥ विलंबितद्रुते भेदतया काष्ठार्द्धमानतः।
जितं बाणेन शीघ्रत्वाद्विलंबावर्जितः परः ॥११६ ॥ तथाहि-दामोदरकराघातविह्वलीकृतचेतसा ।
दृष्टं चाणूरमल्लेन शतचंद्रनभस्तलम् ॥११७॥ इति गीर्निर्णयं लब्ध्वा प्रधानैः सहितौ कवी। निजं नगरमायातौ तस्थतुर्भूमिपाग्रतः॥११८॥ मयूरश्च निजग्रंथपुस्तकानि नृपांगणे । आनीयाज्वालयत् खेदात्तानि जातानि भस्मसात् ॥ ११९ ॥