________________
१८८
प्रभावकचरिते भस्मापि यावदुड्डीनं श्रीसूर्यशतपुस्तकम् । तावत्प्रत्यग्रसूर्याशुप्रकटाक्षरमस्ति च ॥ १२० ॥ ततो राज्ञा प्रभावोस्य गौरवेण प्रकाशितः। उभयोर्विदुषो मानं साम्ये स समभावयत् ॥ १२१॥ तौ भूपालःस्तुवन्नित्यममात्यं चान्यदा जगौ। प्रत्यक्षोतिशयो भूमिदेवानामेव दृश्यते ॥ १२२॥ कुत्रापि दर्शनेन्यस्मिन् कथमस्ति प्रजल्पतः । प्राह मंत्री यदि स्वामी शृणोति प्रोच्यते ततः॥१२३ ॥ जैनः श्वेतांबराचार्यो मानतुंगाभिधः सुधी। महाप्रभावसंपन्नो विद्यते तावके पुरे ॥१२४॥ . चेत्कुतूहलमत्रास्ति तदाहूयत तं गुरुम्। चित्ते वो यादृशं कार्य तादृशं पूर्यते तथा ॥१२५ ॥ इत्याकर्ण्य नृपः प्राह तं सत्पात्रं समानय । सन्मानपूर्वमेतेषां निस्पृहाणां नृपः कियान् ॥ १२६॥ तत्र गत्वा पुरो मन्त्री गुरूनानम्य चावदत् । आह्वाययति वात्सल्याभूपः पादोऽवधार्यताम् ॥ १२७॥ गुरुराह महामात्य राज्ञा नः किं प्रयोजनम् । निरीहाणामियं भूमिर्नहि प्रेत्य भवार्थिनाम् ॥ १२८ ॥ मंत्रिणोचे प्रभो श्रेष्ठा भावनातः प्रभावना। प्रभाव्यं शासनं पूज्यैस्तद्राशो रंगतो भवेत् ॥ १२९॥ इति निर्बधतस्तस्य श्रीमानतुंगसूरयः। राजसौधं समाजग्मुरभ्युत्तस्थौ च भूपतिः॥१३०॥ धर्मलाभाशिषं दत्वा निविष्टा उचितासने । नृपः प्राह द्विजन्मानः कीदृक् सातिशयाः क्षितौ ॥ १३१ ॥ एकेन सूर्यमाराध्य खांगादोगो वियोजितः। अपरश्चंडिकासेवावशाल्लेभे करक्रमौ ॥ १३२ ॥ भवतामपि शक्तिश्चेत्काप्यस्ति यतिनायकाः। तदा कंचिञ्चमत्कारं पूज्या दर्शयताधुना ॥ १३३ ॥ इत्याकाथ ते प्राहुर्न गृहस्था वयं नृप । धनधान्यगृहक्षेत्रकलबापत्यहेतवे ॥१३४॥ राजरंजनविद्याप्तिर्लोकाक्षेपादिका क्रिया। यद्विदध्मः परं कार्यः शासनोत्कर्ष एव नः ॥ १३५ ॥ इत्युक्ते प्राह भूपालो निगडैरेष यंत्र्यताम् ।
आपादमस्तकं ध्वांते निवेश्य प्रवदन्निति ॥ १३६ ॥ १ D. भूपपादौ.