________________
श्रीमानतुंगप्रबन्धः ।
ततोऽपवरके राजपुरुषैः परुषैस्सदा । निगडैश्च चतुश्चत्वारिंशत्संख्यैरयोमयैः ॥ १३७ ॥ नियंत्रितः समुत्पाद्य लोहयंत्रसमो गुरुः । न्यवेश्यताथ तद्वाराररी च पिहितौ ततः ॥ १३८ ॥ अतिजीर्ण सनाराचं तालकं प्रददुस्ततः ।
सूचिमेघ (भेद्य) तमस्कांडः स पातालनिभो बभौ ॥१३९॥ वृत्तं भक्तामर इति प्रख्यं प्राहैकमानसः ।
१८९
त्रट्कृत्य निगडं तत्र त्रुटित्वापपे ( पै) ति तत्क्षणात् ॥ १४० ॥ प्राकूसंख्यया च वृत्तेषु भणितेषु द्रुतं ततः ।
श्रीमानतुंगसूरिश्व मुत्कलो मुत्कलोभवत् ॥ १४१ ॥ स्वयमुद्धटिते द्वारयंत्रे संयमसंयतः ।
सदानुच्छृंखलः श्रीमानुच्छृंखलवपुर्बभौ ॥ १४२ ॥ अंतःसंसदमागत्य धर्मलाभं नृपं ददौ । प्रातः पूर्वाचलान्निर्यन्भास्वानिव महाद्युतिः ॥ १४३ ॥ नृपः प्राह शमस्तादृक् भक्तिश्चाप्यतिमानुषी । देव देवीकृताधारं विना कस्येदृशं महः ॥ १४४ ॥ देशः पुरमहं धन्यः कृतपुण्यश्च वासरः । यत्र ते वदनं प्रैक्षि प्रभो प्रातिभसंनिभम् ॥ १४५ ॥ आदेशसुकृतावेशं प्रयच्छ स्वच्छतानिधे । आजन्मरक्षादक्षः स्याद्यथा मे त्वदनुग्रहः ॥ १४६ ॥ श्रुत्वेति भूपतेर्वाचं प्राहुस्ते यदकिंचनाः । लक्ष्मीनामुपयोगं च कुत्राप्यर्थे विदध्महे ॥ १४७ ॥ परं श्रीमन्गुणांभोधे प्रशाधि वसुधामिमाम् । जैनधर्मं हताक्षेमं परीक्ष्य परिपालय ॥ १४८ ॥ अथोवोचन्महीपालः पांथो जैनादृते पथि । अदर्शनादियत्कालं पूज्यानां वंचिंता वयम् ॥ १४९ ॥ अहो ममावलेपोऽभूद्ब्राह्मणा एव सत्कलाः । देवान्संतोष्य यैः स्वीयोदर्शितः प्रत्ययो मम ॥ १५० ॥ विवदानावहंकारान्नैतावुपरतौ क्वचित् ।
दर्पायैव न बोधाय या विद्या सा मतिभ्रमः ॥ १५१ ॥ येषां प्रभावः सर्वातिशायी प्रशम ईदृशः । संतोषश्च तदाख्यातो धर्म्मः शुद्धः परीक्षया ॥ १५२ ॥
१ P . तत्कल्पो मुत्कलो. २ P. नांचविना.