________________
प्रभावकचरिते तन्मया भवतामेवोपदेशः संविधीयते । अतःपरं कटुद्रव्यं त्यक्त्वा स्वाद्यं हि गृह्यते ॥ १५३ ॥ तत आदेशपीयूषपोषात्तृप्तं कुरुग्व माम् । राशो वाचमिति श्रुत्वा सूरिः प्रण्यगदद्गिरम् ॥ १५४॥ दीनपात्रौचितीभेदात्रिधा दानरुचिर्भव। जीर्णान्युद्धर चैत्यानि बिंबानि च विधापय ॥१५५॥ आह मंत्री प्रभोर्विप्र प्रातिभं कजलोज्ज्वलम् । जैनवाचं यमादेशक्षीरेणैव विलुप्यते ॥ १५६ ॥ इत्थं धर्मोपदेशं च प्रदेशमिव सद्भतेः । तेऽथ प्रदाय भूपाय संययुः स्वाश्रयं तदा ॥ १५७॥ सर्वोपद्रवनिर्नाशी भक्तामरमहास्तवः। तदा तैर्विहितः ख्यातो वर्त्ततेद्यापि भूतले ॥१५८ ॥ कदापि कर्मवैचित्र्यात्तेषां चित्तरुजाभवत् । कर्मणा पीडिता यस्मात् शलाकापुरुषा अपि ॥ १५९ ।। धरणेन्द्रस्मृते रायस्पृष्टोऽनशन हेतवे । अवादीदायुरद्यापि स तत्संहियते कथम् ॥ १६०॥ यतो भवादृशामायुर्बहुलोकोपकारकम् । अष्टादशाक्षरं मंत्रं ततस्तेषां समार्पयत् ॥ १६१ ॥ ह्रियते स्मृतितोयेन रोगादि नवधा वयम् । अंतर्ययौ ततः श्रीमान् धरणो धरणीतलम् ॥१६२॥ ततस्तदनुसारेण स्तवनं विदधे प्रभुः। ख्यातं भयहरं नाम तदद्यापि प्रवर्तते ॥ १६३॥ हेमंतशतपत्रश्रीदेहे स्तोघमहोनिधिः । सूररजनि तस्याहो सुलभं तादृशां ह्यदः॥१६४ ॥ सायं प्रातः पठेदेतत्स्तवनं यः शुभाशयः। उपसर्गा व्रजंत्यस्य विविधा अपि दूरतः ॥ १६५॥ मानतुंगप्रभुः श्रीमानुद्योतं जिनशासने । अनेकधा विधायैवं शिष्यान्निष्पाद्य सन्मतीन् ॥ १६६ ॥ द्वेधा गुणाकरं शिष्यं पदे स्वीये निवेश्य च। द्रगिनीमथ संप्राप्यानशनी दिवमभ्यगात् ॥ १६७ ॥ इत्थं श्रीमानतुंगप्रभुचरितमतिस्थैर्यकृजैनधर्म
प्रासादस्तंभरूपाः सुकृतभरमहापट्टविष्टंभहेतुः । श्रुत्वा कुत्रापि किंचिद्गदितमिह मया संप्रदायं च लब्ध्वा शोध्य मेधाप्रधानैः सुनिपुणमतिभिस्तञ्चनोत्प्रासनीयम्॥