________________
श्रीमानदेवप्रबन्धः ।
१९१ श्रीचंद्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभा
चंद्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा। श्रीपूर्वर्षिचरित्ररोहणगिरौ श्रीमानतुंगाद्भुतं श्रीप्रद्युम्नमुनींदुना विशदितः शृंगोभवद्वादशः ॥ १६९ ॥
॥ ग्रंथाग्रं १७४ अ ३ उभयं ३११४॥
श्रीमानदेवप्रबन्धः सूरेः श्रीमानदेवस्य प्रभावांभोनिधिर्नवः । सदा यत्क्रमसेविन्यो ते जयाविजये श्रियौ॥१॥ निर्वृतिं यत्क्रमांभोजगुणानुचरणादधुः। गति मनोहरां हंसा मानदेवः स वः श्रिये ॥२॥ तवृत्तसिंधुतः किंचिदेकदेश विभाव्य च । आख्यानपण्यविस्तारात्तरिष्यामि स्वमूढ़ताम् ॥३॥ अस्ति सप्तशतीदेशो निवेशो धर्मकर्मणाम् । यहानेशभिया भेजुस्ते राजशरणं गजाः ॥ ४ ॥ तत्र कोरंटकं नाम पुरमस्त्युन्नताश्रयम् ।। द्विजिह्वविमुखा यत्र विनतानंदना जनाः॥५॥ तत्रास्ति श्रीमहावीरचैत्यं चैत्यं दद्धदृढम् । कैलासशैलवद्भाति सर्वाश्रयतयानया ॥ ६॥ उपाध्यायोस्ति तत्र श्रीदेवचंद्र इति श्रुतः। विद्वद्वन्दशिरोरत्न तमस्ततिहरो जने ॥ ७॥ आरण्यकतपस्यायां नमस्यायां जगत्यपि। सक्तं शक्तांतरंगारिविजये भवतीरभूः॥८॥ सर्वदेवप्रभुः सर्वदेवसद्ध्यानसिद्धिभृत् । सिद्धक्षेत्रे यियासुःश्री वाराणस्याः समागमत् ॥९॥ वहुश्रुतपरीवारो विश्रांतस्तत्र वासरान् । कांश्चित्प्रबोध्य तं चैत्यव्यवहारममोचयत् ॥ १०॥ स पारमार्थिकं तीव्र धत्ते द्वादशधा तपः। उपाध्यायस्ततः सूरिपदे पूज्यैः प्रतिष्ठितः॥११॥ श्रीदेवसूरिरित्याख्या तस्य ख्यातिं ययौ किल। श्रूयंतेऽद्यापि वृद्धेभ्यो वृद्धास्ते देवसूरयः ॥१२॥ श्रीसर्वदेवसूरीशः श्रीमच्छ@जये गिरी॥ आत्मार्थ साधयामास श्रीनाभेयैकवासनः॥१३॥
१ D. चित्तानंदजनाजना २ P. जनै. ३ D. वेशनः. H. वासवः.