________________
प्रभावकचरि
१५ ॥
चारित्रं निरतीचारं ते श्रीमद्देवसूरयः । प्रतिपाल्य निवेश्याथ सूरिं प्रद्योतनं पंदे ॥ १४ अंतेऽनशनमाधाय ते सदा राद्धसंयमाः । सम्यगाराधनापूर्व दैवीं श्रियमशिश्रियन् ॥ अथो विजहुर्नर्मुले (?) श्री प्रद्योतनसूरयः ॥ तेषां परोपकारायावतारो हि भवेत्क्षितौ ॥ १६ ॥ तत्र श्रीजिनदत्तोऽस्ति ख्यातः श्रेष्ठी धनेश्वरः । सर्वसाधारणं यस्य मानसं मानदानयोः ॥ १७ ॥ धारिणीति प्रिया तस्य धर्मे निबिडवासना । वर्त्तते व्यवहारेण द्वयोऽस्तु पुरुषार्थयोः ॥ १८ ॥ तत्पुत्रो मानदेवोऽस्ति मानवानप्यमानरुक् । वैराग्यरंगितस्वांतः प्रांतभूरांतरद्विषाम् ॥ १९ ॥ श्रीप्रद्योतनसूरीणामन्यदोपाश्रयेऽगमत् । ते धर्मं तस्य चाचख्युस्तरंडं भवसागरे ॥ २० ॥ संसारासारतां बुद्ध्वा गुरुपादान् व्यजिज्ञपत् । मानदेवः परिव्रज्यां ददध्वं मे प्रसीदत ॥ २१ ॥ निर्बंधात्पितरौ चानुज्ञाप्य शुद्धे दिने ततः । चारित्रमग्रही दुग्रमाचचार व्रतं च सः ॥ २२ ॥ अंगैकादशकेऽधीती छे (वे) दमूलेषु निष्ठितः । उपांगेषु च निष्णातस्ततो जज्ञे बहुश्रुतः ॥ २३ ॥ विज्ञाय सोऽन्यदा विज्ञो योग्यः सद्गुरुभिस्तदा । पदप्रतिष्ठितश्चक्रे चन्द्रगच्छांबुधेः शशी ॥ २४ ॥ प्रभावाद् ब्रह्मणस्तस्य मानदेवप्रभोस्तदा । श्रीजयाविजयादेव्यौ नित्यं प्रणमतः क्रमौ ॥ २५ ॥ एवं प्रभावभूयिष्ठे शासनस्य प्रभावकः । संपद्येोमांगणोद्योतभास्वानिव स च व्यभात् ॥ २६ ॥ अथ तक्षशिलापुर्थी चैत्यपंचशतीभृति । धर्मक्षेत्रे तदा जज्ञे गरिष्टमशिवं जने ॥ २७ ॥ अकालमृत्युं संयाति रोगैर्लोक उपद्रुतः । जज्ञे यत्रौषधं वैद्यो न प्रभुर्गुणहेतवे ॥ २८ ॥ प्रतिजागरणे ग्लानं देहस्येह प्रयाति यः । गृहागतः स रोगेण पात्यते तल्पके द्रुतम् ॥ २९ ॥ स्वजनः कोपि कस्यापि नास्तीह समये तथा । आक्रंदभैरवारावरौद्ररूपाभवत्पुरी ॥ ३० ॥
१ P. तने. २ D. ननृते . P . नले.
१९२