________________
श्रीमानदेवप्रबन्धः।
१९३ चैत्यानां च सहस्राणि दृश्यतेऽत्र बहिः क्षितौ । शवानामर्द्धदग्धानां श्रेणयश्च भयंकराः॥३१॥ सुभिक्षमभवद्गृध्रक्रव्यादानां तदोदितम्। शून्या भवितुमारेभे पुरी लंकोपमा तदा ॥ ३२॥ पूजा च विश्वदेवानां विश्रांता पूजकान् विना । गृहाणि शवसंघातदुर्गधानि तदाभवन् ॥ ३३॥ कियानप्युट्टतः संघश्चैत्ये कृत्वा समागमम् । मंत्रयामास कल्पांतः किमद्यैवागतो ध्रुवम् ॥ ३४॥ न कपर्दी न वांबा च ब्रह्मशांतिर्न यक्षराट् । अद्याभाग्येन संघस्य नो विद्यादेवता अपि ॥ ३५ ॥ भाग्यकाले यतः सर्वो देवदेवीगणः स्फुटः। स प्रत्यय इदानीं तु ययौ कुत्रापि निश्चितम् ॥ ३६॥ इति तेषु निराशेषु समेता शासनामरी। उपादिशत्तदा संघमेवं संतप्यते कथम् ॥ ३७॥ म्लेच्छानां व्यंतरैरुग्णैः सर्वः सुरसुरीगणः। विहृतस्तद्विधीयेत किमत्रास्माभिरुच्यताम् ॥ ३८॥ अतः परं तृतीयेऽत्र वर्षे भंगो भविष्यति । तुरुकैर्विहितः सम्यग्ज्ञात्वा कृत्यं यथोचितम् ॥ ३९ ॥ परमेकमुपायं वः कथयिष्यामि वस्तुतः। शृणुतावहिताः संतः संघरक्षा यथा भवेत् ॥४०॥ ततस्तेनाशिवे क्षीणे मुक्त्वा पुरमिदं ततः। अन्यान्यनगरेवव गंतव्यं वचसा मम ॥४१॥ श्रुत्वा च किंचिदाश्वासपंतस्ते पुनरप्यधुः। समादिश महादेवि कोन्योऽन्यः परिरक्षिता ॥४२॥ देवी प्राहाथ नहँले मानदेवाख्यया गुरुः । श्रीमानस्ति तमानाय्य तत्पादक्षालनोदकैः॥४३॥ आवासीनभिषिंचध्वं यथा शाम्यति डामरम् । एवमुक्त्वा तिरोधत्त श्रीमच्छासनदेवता ॥४४॥ श्रावकं वीरदत्तं ते प्रैषुर्नट्टलपत्तने । विज्ञप्तिकां गृहीत्वा च स तत्र क्षिप्रमागमत् ॥४५॥ भूप्रणामाश्रयं दृष्ट्वा व्यधानषेधिकी तदा । मध्याह्ने सूरिपादाश्च मध्येऽपवरकं स्थिताः॥४६॥ उपाविशन् शुभे स्थाने स्थाने सब्रह्मसंविदाम् । पर्यकासनमासीना नासाग्रन्यस्तदृष्टयः॥४७॥ १ D. स्या.
17