________________
प्रभावकचरिते समानाः कृच्छ्रकल्याणे तृणे स्त्रैणे मणौ मृदि । तेषां प्राप्त प्रणामाय देव्यौ श्रीविजयाजये ॥४८॥ कोणान्तरुपविष्टे च ते दृष्ट्वा सरलः स च । निमग्नात्मा तमस्तोमे दध्यौ चिन्ताविपन्नधीः ॥ ४९ ॥ ध्रुवं प्रसारिकास्माकं सापि शासनदेवताम् ।। ययौ तावंतमध्वानं प्रेष्याहं क्लेशितो ध्रुवम् ॥ ५० ॥ आचार्योयं हि राजर्षिर्मध्ये दिव्यांगनं स्थितः । अहो चारित्रमस्यास्ति शाम्येदस्मादुपद्रवः ॥ ५१ ॥ मामायांतं च विज्ञाय ध्यानव्याजमिदं दधौ । क एवं नहि जानीते तस्मादारोक्षणं बहिः॥५२॥ ध्याने च पारिते मुष्टिं बड्वासावृजुधार्मिकः। प्राविशद्वारमध्ये च सावझं गुरुमानमत् ॥ ५३ ॥ विज्ञाय चेंगितैर्दिव्यौ तस्याविप्रतिपन्नताम् । अदृष्टैबंधसंबन्धैस्तं निपात्य बबंधतुः ॥ ५४॥ आरटंतं च तं तारस्वरं दृष्टानुकंपया। प्रभुर्विमोचयामास तदज्ञानप्रकाशवान् ॥ ५५ ॥ जयोहार महापाप शापयोग्य क्रियाधम ।। प्रभोः श्रीमानदेवस्य चारित्रस्य शरीरिणः ॥ ५६ ॥ एवं विकल्पमाधत्से श्रावकव्यंसको भवान् । पुंशायनाकिचिह्नानामनभिज्ञोशशेखरः॥ ५७॥ ईक्षवानिमिषे दृष्टी चरणावक्षितिस्पृशौ। पुष्पमाला न च म्लाना देव्यावावां न लक्षसे ॥५८ ॥ प्रागेव मुष्टिघातेन प्रैषयिष्यं यमालये। जैनश्रद्धालुदंभेनाहमपि च्छलिता त्वया ॥ ५९॥ प्रभोरादेश एव त्वजीवने हेतुरग्रिमः। परं पातकभूः कस्मादीदृशस्त्वं समागतः॥ ६०॥ मुष्टिर्बद्धो लभेतात्र लक्षमित्यभिसंधितः। बद्धमुष्टिर्भवानागात्तादृगेव प्रयातु तत् ॥ ६१॥ स प्राह श्रूयतां देव्यौ श्रीसंघः प्रजिघाय माम् । पुर्यास्तक्षशिलाख्यायाः शासनेशोपदेशतः॥ ६२॥ अशिवोपशमार्थ श्रीमानदेवस्य सुप्रभोः। आह्वानायाथ मूर्खत्वान्ममैवाशिवमाययौ ॥ ६३ ॥ उवाच विजया तत्राशिवं किमिव नो भवेत् । तत्र युप्मादृशः श्राद्धादर्शनच्छिद्रवीक्षकाः॥ ६४ ॥
१ D. ता. २ P. जयादरे.