________________
श्रीमानतुंगप्रबन्धः ।
वराक न विजानासि प्रभावं त्वममुष्य भोः। मेघा वर्षति सस्यानां निष्पत्तिं चास्य सत्वतः ॥६५॥ श्रीशांतिनाथतीर्थेशा सेविनी शांतिदेवता। सा मूर्तिद्वितयं कृत्वास्मयाजाद्वंदते ह्यमुम्॥६६॥ विजयाह त्वयैकेन श्रावकेण समं मुदा।। प्रहिणोमि कथं पूज्या न कर्णहृदया किमु ॥६७॥ बहवस्त्वादृशाः सन्ति यत्रेहग्धार्मिकोत्तमाः। कथं भवेत् पुनदृश्यः प्रहितस्तत्र नो गुरुः ॥ ६८॥ सूरयः प्राहुरादेशः संघस्याधेय एव नः । अशिवोपशमः कार्य तदत्रस्थैर्विधाप्यते ॥ ६९ ॥ वयं तु नागमिष्यामोऽत्रत्यसंघाननुज्ञया । संघमुख्य इमे देव्यौ तयोरनुमतिर्नच ॥ ७०॥ अमूभ्यामुपदिष्टो यः पुरा कमठजल्पितः।। अस्ति मंत्राधिराजाख्यः श्रीपार्श्वस्य प्रभोः क्रमः॥ ७१ ॥ श्रीशांतिनाथपार्श्वस्थप्रभुस्मृतिपवित्रितम् । गर्भितं तेन मंत्रेण सर्वाशिवनिषेधिना ॥ ७२ ॥ श्रीशांतिस्तवनाभिख्यं गृहीत्वा स्तवनं वरम् । वस्थो गच्छ निजं स्थानमशिवं प्रशमिष्यति ॥ ७३॥ इत्यादेशं च संप्राप्य तथैव कृतवान्मुदा। प्राप्तस्तक्षशिलायां स स्तवं संघस्य चार्पयत् ॥ ७४॥ तस्य चाबालगोऽपाल पठतः स्तवनं मुदा । दिनैः कतिपयैरेव प्रशांतोयमुपद्रवः ॥ ७५॥ कोपि कुत्रापि चायातः प्रगम्य जनमध्यतः । गते वर्षत्रये भग्ना तुरुष्कैः सा महापुरी ॥ ७६॥ अद्यापि तत्र बिंबानि पित्तलाश्ममयानि च । तद्भगृहेषु संतीति ख्याता वृद्धजनश्रुतिः ॥ ७७॥ ततः प्रभृति संघस्य क्षुद्रोपद्रवनाशकः। स्तवः प्रवर्त्ततेऽद्यापि शांति शांत्यादिरद्भुतः ॥ ७८॥ मंत्राधिराजनामाभूत्तस्य मंत्रः प्रसिद्धिभूः। चिंतामणिरिवेष्टार्थप्रद आराधनावशात् ॥ ७९॥ सूरिः श्रीमानदेवाख्यः शासनस्य प्रभावना । विधायानेकशो योग्यं शिष्यं पट्टे निवेश्य च ॥ ८०॥ जिनकल्पाभसंलेखनया संलिख्य विग्रहम् । आयुःप्रांते परं ध्यानं बिभ्रत्रिदिवमापसः॥ ८१ ॥
१ P. H. विधास्यते.