________________
३२६
प्रभावकचरिते एकत्र कीलके कुष्टे तत्सर्व गर्तमंदिरे । खदिरांगारसंपूर्ण भस्मीभवति तत्क्षणात् ॥ ४९५॥ एवं निवेद्य ते नेत्रे नेत्रे बाप्पप्लुते दधुः। तन्नायकोप्युवाचैवं मतिः कार्यप्रसाधिका ॥ ४९६॥ असौ यथा तपस्वीग्शय्यायांचंगभंगिभिः। आक्षिप्ताक्षो निवेश्येत तदास्याधोगते मृतिः ॥ ४९७ ॥ इति प्रातर्विचिंत्यायमायाच्छिबिरमध्यतः। राजपादान्नमश्चक्रेऽवनीलुठनपूर्वकम् ॥ ४९८॥ विज्ञो विज्ञपयामास मौरवो मंडलेश्वरः। दंभात्सुधां मुखे विभ्रद्विषपूर्णो घटो यथा ॥ ४९९ ॥ अलंकुरुत हयं मे प्रसादः क्रियतां प्रभो। तत्र प्रत्यवसाने नावसानेनाद्य दुःस्थिते ॥ ५०० ॥ ध्वांतेतिधीनिधिर्भूपोनारवेषु न विश्वसेत् । प्राह नः परिवार प्राय भुक्ता ननु वयं ततः ॥ ५०१ ॥ क एवं हि हितान्वेषी स्वामिभक्तश्च दृश्यते । परमारकुलोद्भूतं भवंतमभयं विना ॥ ५०२ ॥ तत्र कः प्रतिषिद्धोस्ति शुभे कार्ये महीधरः। अस्माकं भवदावास एव योग्यो विलोकितुम् ॥५०३॥ खाम्यादेशः प्रमाणं मे इति प्राच्यपरिच्छदाम् । भक्तोऽसौ भोजयांचके पराह्वावध्यबाधय ॥ ५०४॥ अंगरक्षास्ततः स्वामिमूतिरक्षाः सदोद्यता। आहूतास्तत्समस्तं च कुट्टिमं प्रकटीकृतम् ॥ ५०५॥ यत्रासन्नः पुमानेको वृद्धो मतिमतां पतिः। आजिघ्रन् गंधमत्युग्रं ध्मातांगारगणस्य सः ॥ ५०६ ॥ विममर्श निजवांते विज्ञातं किंचिदद्भुतम् । तत्रास्ते वह्निसंबद्धं प्रभुविद्रोहकारणम् ॥ ५०७॥ ततस्तं विक्रमः साभिप्रायं दृष्टिविकारतः।। परिज्ञायातिसच्चके वक्राशयशिरोमणिः॥ ५०८ ॥ ययौ विक्रमसिंहोऽथ सह तेनैव मंदिरम् । राज्ञः प्राह च मत्सौधे नाथ पादोऽवधार्यताम् ॥५०९ ॥ अथ भूसंज्ञया तेन न्यषेधि गमनं प्रति । भूपतिः प्राह तंत्रं मे समस्तं भोजितं त्वया ॥ ५१०॥ वयं तु प्राक् त्रियामायां चिंताजागरपीडिताः। अधुनाभ्यवहारेषु नाभिलाषुकचेतसः॥ ५११॥ मुहूर्त्तश्चापि दैवज्ञैः प्रयाणाय निवेदितः। संप्रत्येव ततो ढकावाद्या प्रस्थीयते यथा ॥ ५१२॥