________________
श्रीहेमचंद्रसूरिप्रबन्धः। त्वमपि स्वां चमूं सज्जीकृत्य "विशारदः। शीघ्रमागच्छ तच्छेका जंभायंते त्वरायते ॥ ५१३॥ अतः शंकां वहन्नोमित्युक्त्वा तां प्रययौ स्वकम् । धाम ज्ञातमिवायं खं विमृशन् चेतसि क्षणम् ॥ ५१४ ॥ झटित्येव प्रशस्ते च स्तंवाचाटप्रभोस्तदा। अचिराद्रिपुदुर्गस्योपकंठे शिबिरं दधौ ॥ ५१५॥ स यथास्थानमातस्थौ शिबिरस्य निकेतनम् । अहर्दिवं प्रहरके जाग्रव्यग्रभरोद्धरम् ॥ ५१६ ॥ अर्णोराजोप्यजानानः सिद्धकुंभभवव्रतम् । अथ मेनेवलेपोग्रव्याहारोर्मिभिरेव तम् ॥ ५१७ ॥ अथैकादशवर्षाणि विजुगोप पदोरधः। ममाथ द्वादशेप्यस्तु कात्र भूपालकल्पना ॥ ५१८॥ हतसत्वोद्धृतैर्भीत्या कृत्रिमैरपि दर्शनैः। जीव जीवेति जल्पद्भिर्मतो राजा स्वसेवकैः ॥ ५१९ ॥ तथा चारुभटः श्रीमत्सिद्धराजस्य पुत्रकः । हक्काढक्काखरभ्रांतहस्ती मामुपतिष्ठते ॥ ५२० ॥ इत्यनल्पविकल्पैः स यंत्रानासजयत्तदा । दुर्गे स्वर्ग इवासीन उदासीनोऽकुतो भयः ॥ ५२१॥ कुंततोमरशत्याद्यैः पूर्णेष्वद्यालकेष्वपि। विलेभे न भटवातं निजभाग्यकदर्थितः॥ ५२२॥ . श्रीमान् कुमारपालोपि ज्ञात्वेति प्रणधिवजैः। अनीकिनी निजां दानमानाद्यैः समपूजयत् ॥ ५२३ ॥ गजानां प्रतिमानानि शृंखलामुकुरांस्तथा। अश्वानां कविकावल्गादामपल्ययनानि च ॥५२४॥ रथानां किंकिणीजालचक्रांगयुगशंबिकाः। योधानां हस्तिकां वीरवलयानिव चंद्रकान् ॥ ५२५ ॥ सुवर्णरत्नमाणिक्यसूचीमुखमयान्यपि । चतुरंगेपि सैन्येऽसौ भूषणानि ददौ मुदा ॥ ५२६॥ रोहणदुमकर्पूरकश्मीरजविलेपनैः।। स्वयं विलिप्य वाणि भटानां पटुताभृताम् ॥ ५२७ ॥ सहस्रपत्रचांपेयजातीविचकिलस्रजः । कामं धम्मिल्लमालासु बबंध खयमीशिता ॥ ५२८ ॥ हेमंतसितपत्राभैः शातकुंभसमैरसौ। स्कंधानभ्यर्च्य यद्योधप्रधानानां प्रमोदतः॥ ५२९ ॥