________________
३२८
प्रभावकचरिते सांधकारनिशीथे च राजा तेजःप्रतापभूः । तानुत्साह्य सुधासध्रीचीभिर्वचनवीचिभिः ॥ ५३०॥ चचाल संमदोत्तालकलाकेलिकुलावनिः । अतूर्यवऋनिर्घोष रहोयोगीवनिध्वनिः ॥ ५३१ ॥ पर्वताधित्यकाभूमिं गत्वा तूर्यरवान् समम् । व्यस्तारयत्तथा चक्रेऽभूपः सूकरिकास्तथा ॥ ५३२॥ तदा च वाग्भटामात्यस्तेनादिष्टः समानय । आप्रभातात्पंचशतीमार्द्राणां सैरिभत्वचाम् ॥ ५३३॥ तेनानीताश्च ताः संवमिणोघरघमंडपः। षडी:? प्रपातयामासुस्तन्मध्ये तु भटोत्कटाः॥५३४॥ एके च दशनैः खङ्गान्युत्पाट्यारुरुहुर्दुतम् । प्राकारकपिशीर्षाणि तच्छीर्षाणीव विक्रमात् ॥ ५३५॥ व्यद्रवन्नथ तेऽन्तस्था विहिते संप्रसारणे । ह्रस्वीकृतः कुमारेण भूपेनाख्यातवेदिना ॥ ५३६ ॥ विवृत्य गोपुरद्वारं बहिर्निरसरत्प्रगे। अर्णोराजोऽपि तत्राजौ स्वजीवे विगतस्पृहः ॥ ५३७ ॥ वाद्यमानेषु संग्रामतूर्येषु प्रतिशब्दितैः। शब्दाद्वैतं बभूवात्र पक्षयोरुभयोरपि ॥ ५३८॥ कातराणां तदा तत्र देहानाशाक्षमानि च । परित्यज्य ययुःप्राणाः पातालं शरणार्थिनः॥५३९ ॥ ततः प्रववृते युद्धं खङ्गाखङ्गि शराशरि। बाहुबाहवि सर्वत्रादृश्यमानजनास्यकम् ॥ ५४० ॥ शूरसंक्रांतिकाले च भूधरा अस्मया इव । बहुशः खंड्यमानांगा अदृश्यंत जनेश्वराः॥ ५४१॥ पक्ककूष्मांडकानीवाखंड्यंतात्र तुरंगमाः। शालिपर्पटवद्थ्याः समचूर्यंत निर्भरम् ॥ ५४२॥ परिपक्किमकालिंगवत्पत्तिजठरावलिः। पाटिता तत्र कालेयप्लीहफुफुससंकुलाः ॥ ५४३ ॥ विचेरुर्गगने गृध्रा नूनं मांसाभिलाषुकाः। विमानस्थाप्सरो दूता इव प्राणेशसंगमे ॥ ५४४ ॥ इत्येवमन्वयख्यातिनामोद्घट्टनपूर्वकम् । युद्धे भवति शांतासु धूलीषु मद्वारिभिः ॥ ५४५॥ पट्टवारणयोस्तत्र दंतादंति विलग्नयोः। दृष्टश्चारुभटो राज्ञारिनिषादितया स्थितः ॥ ५४६॥
१P पुप्पुस.