________________
श्रीहेमचंद्रसूरिप्रबन्धः ।
३२९ श्यामलाधोरणस्तत्र हस्तिहक्काभयापहृत् । उत्कील्याच्छपटी द्विः स कृत्वा तस्य श्रुती प्यधात् ॥५४७॥ ततश्चारुभटो गर्वाद्धस्तिदंते पदं दधौ। यत्कियान् प्रतिमातंग इति चेतसि चिंतयन् ॥ ५४८॥ पक्षयोगूर्जरेशोपि लोचने संन्यवीविशत् । बलं विघटितं सर्व महाधरमुषं तदा ॥ ५४९ ॥ शंकितेन तदाजल्पि शामलस्त्वमपीह किम्। भेदितो वारणं पश्चाद्यावर्त्तयसि यत्सखे ॥ ५५० ॥ स प्राह नाथ नो शक्यं स्वप्नेऽपि त्र्यभेदनम् । निखादी श्यामली स्वामी गजः कलंभकेसरी ॥ ५५१॥ पश्चात्कमैर्गतो नीचैस्ततः प्रतिगजात्पतन् । शत्रुराज्यस्य सर्वस्वं ग्राह्यश्चारुभटस्त्वया ॥ ५५२॥ यावदेवं वदत्येष तावद्विघटितौ रदौ । अंतर्द्वयोर्जवात्तत्रापतत्स्वस्वामितेजसा ॥५५३॥ जगृहे तलवर्गीयैः सुभटैः संयतश्च सः। अर्णोराजश्च राज्ञापि कुंतेन निहितोऽलिके ॥५५४॥ प्रणाशाभिमुखः कांदिशीकश्वारुभटं विना। व्यावर्त्तयद्गजं सेनाप्यस्य व्याजुघटे ततः॥ ५५५॥ जितं जितमिति प्रोच्य पटमभ्रमयत्प्रभुः। मन्यमानश्च राजानं स्वं तदा विक्रमोर्जितान् ॥ ५५६॥ सामंताश्चाययुः सर्वे मंक्षु तं पर्यवारयन् । जितो भवद्भिरेवासावित्यावर्जयदत्र तान् ॥ ५५७॥ देशः कोशश्च लुटाकैस्तस्य सेनाप्यलुंट्यत । सुलूषणाः सत्वहीना युद्धे पृष्ठाप्रदायिनः ॥ ५५८ ॥ ततश्चमूचराः सर्वे तदीयद्रविणैर्घनैः। स्वयंग्रहणतोऽतृप्यन्नासप्तपुरुषावधि ॥५५९॥ जितकाशी ततो भूपो न्यवर्त्तत पुरंप्रति । यच्छन् यथार्थनं दानमर्थिभ्यः कल्पवृक्षवत् ॥ ५६० ॥ अष्टादशशतीदेशप्रख्यपत्तनमासदत् ।। पूर्ववत् वृत्तमत्युग्रं तदीशस्याप्यबुध्य ते ॥५६१ ॥ नृपतिर्विजये सौविदल्लान्मल्लानथादिशत् ।। ततो निमंत्रणायातः पश्चाद्वाहुय॑यंत्र्यत ॥ ५६२ ॥ प्रेष्य प्रेष्यान् निजांस्तस्य मंदिरं मंदुरावरम् ।
अज्वालयत्क्षणादेव यथाभवदसन्सत् ॥ ५६३ ॥ १ P मुखं. २ H भो०. ३ 6 नियादि ? ४ P लवप्रीये. ५ सदृक्.