________________
३३०
प्रभावकचरिते
शाकटेनासृतिं क्षिप्तः स्वस्थानाच्चालितांगकः । हुंकारेणानलंभूष्णुः सोभूत्का वचने कथा ॥ ५६४ ॥ नद्युत्तारेषु पाषाणोद्घाटसंकटभूमिषु । अभूदसृग्विलिताक्षः सपट्कारस्फुरस्थिराः ॥ ५६५ ॥ परमारान्वये राजपुत्रैरुत्तीर्य भूपतिः । सम्यक्प्रणम्य विज्ञप्तो त्वमुन्मत्तनृणां स्तुतिम् ॥ ५६६ ॥ मंचातिमंचकलितमुत्तुंगकृततोरणम् । अणहिल्लपुरं प्राप क्ष्मापप्राप्तजयोदयः ॥ ५६७ ॥ महोत्सवे प्रवेशस्य गजारूढः सुरेंद्रवत् । वाग्भटस्य विहारं स ददृशे दृग्रसायणम् ॥ ५६८ ॥ तत्र प्रविश्य श्रीमंतमजितस्वामिनं नृपः । अर्चयन् सुरभिद्रव्यैरत्यासन्नोपकारिणम् ॥ ५६९ ॥ श्रीपार्श्वमथ च स्मृत्वा संपूज्य च ततोऽवदत् । प्रागुक्तं यन्मया नाथ तत्तथैवावधार्यताम् ॥ ५७० ॥ ततः प्रणम्य सोत्कंठं कंठीरववरासने । पट्टकुंजरकुंभस्थे स्थितोऽगाद्भूभृदालयम् ॥ ५७१ ॥ गोत्रवृद्धांगनावेर्ग संगीतस्फुटमंगलः । प्रतीच्छन् शिरसावर्द्धानान्यनुबभूव सः ॥ ५७२ ॥ ततो विक्रमसिंहस्य स्थाने संधीन्निवेश्य च । आनाय्यानतिदूरे तां भूपालं प्राह सस्मितः ॥ ५७३ ॥ भोविक्रमाग्नियंत्रेण भूपाला एव पंचताम् । प्रयांति नैव सामंता इति त्वं केन शिक्षितः ॥ ५७४ ॥ तत्रैव यद्यहं त्वां भो वह्नौ होता ततो भवान् । भस्मीभूतः क्व दृश्येत सपुत्रपशुबांधवः ॥ ५७५ ॥ यादृशाश्च भवंतः स्युर्गृहकर्मकरा मम । मलिना न वयं नाथास्तादृशास्तदसुन्वहः ॥ ५७६ ॥ अक्षेपि बंदे (दि) शालायां ततोसौ निजकर्मतः । इह लोके हि भोज्यंते राजभिस्तामसास्तमः ॥ ५७७ ॥ तथा श्रीरामदेवाख्यं तद्भातुनंदनं नृपः । श्रीयशोधवलं चंद्रावत्यामेष न्यवीविशत् ॥ ५७८ ॥ अन्येद्युर्वाग्भटामात्यं धर्मात्यंतिकवासनः । अपृच्छदार्हताचारोपदेष्टारं गुरुं नृपः ॥ ५७९ ॥
१ HD मत्यन्हणा मांत्वमन्सतभृणाम् ? २P तंग. ३ P वर्म. ४ P वद.