________________
श्रीहेमचंद्रसूरिप्रबन्धः।
३२५ प्रशस्तैः स महामात्यैर्निजैः समममंत्रयत् । वयं खेदं परं प्राप्ता निर्जीवनृपसेवया ॥ ४७८ ॥ कः प्रतापो बलं किं वा भ्रांतदेशांतरे नरे। अत्र चित्रपटाजीवे चमत्कारोऽतिदुष्करः॥ ४७९ ॥ भस्माधारः पुटीपात्रं जटा मूर्ध्नि शिवार्चनम् । एवं वषे प्रणामो नः कात्र राज्यविडंबना ॥४८०॥ तस्मात्कथंचिदत्रैव यद्यसौ साध्यते नृपः। असौ हि शशकः षं(ख)जो? रुणनिप्पाववाटकः ॥ ४८१ ॥ कोऽपि चालुक्यवंशीयः क्षात्रतेजोभिरद्भुतः। राज्ये निवेश्यतेऽस्माकं तदाक्षां कर्तुमौचिती॥ ४८२ ॥ प्राहुस्तस्य प्रधानाश्च नोचितं भवतां कुले। स्वामिद्रोहो यतोऽधीश सिद्वाधिपपदस्थितः॥४८३॥ अस्माकं सर्वथाराध्यो युद्धेष्वनियतो जयः। दुर्ग रोधविशेषेण विमृश्यं तदिदं धनम् ॥ ४८४॥ उवाच च कथं बोध्यो भूपालोसौ भविष्यति। . कृतं वो परभिक्षाभिरुपायं वदत ध्रुवम् ॥ ४८५॥ वयं हि तस्य वक्तारः स्वामिना करणे पुनः। प्रमाणं स्वरुचिर्नाथ तत्कुरु प्रतिभाषितम् ॥४८६॥ अथाह विक्रमो वह्नियंत्रं प्रकुरुताधुना। मत्सौधेऽसौ यथावश्यमक्लेशेन विनश्यति ॥४८७॥ व्यचारयन्निमित्तं ते निजावांसेऽग्निदीपनम् । प्रागलभ्यात् कुमारे तत् विनाशस्यैव सूचकम् ॥ ४८८ ॥ किंच प्रविधामोत्र दुर्लध्या भवितव्यता। राज्यच्छेदोऽस्य संपन्नो भूपालो विजयी पुनः॥ ४८९ ॥ श्रीसिद्धाधीशपट्टे यः प्राच्यपुण्यैर्निवेशितः। एतत्सदृशभृत्यानां नास्यै योग्यो भविष्यति ॥ ४९०॥ एवं विमृश्य तेऽवोचन् हस्तस्पृष्टललाटकः। खाम्यादेशः प्रमाणं नः कार्या नात्र विचारणा ॥४९१॥ सूत्रधारैस्ततो भूमांतरा सौधं निवेशितम् । ऊवं च स्तंभपट्टादि चलं वस्त्रांचलोपमम् ॥ ४९२॥ तस्योपरि प्रतिसीरा प्रावारास्तरणास्तृताः। मंडिा विततोल्लोचा वबूलैः पद्मकैस्तथा ॥४९३॥ मौक्तिकैः कुसुमैर्गुच्छैर्विच्छंदकशतैरपि । सुंदरातत्र मयारिच थाच तत्र तंतुमयारिच ॥४९४॥ युग्मम् ॥
१P omits. ततोलो.
28