________________
३२४
प्रभावकचरिते तथा तद्वचनं तथ्यमभूदैवतवाक्यवत् । अद्यापि ध्वनति ध्मातघंटाटंकारवदृढम् ॥ ४६१ ॥ बिंबस्यास्य प्रतिष्ठानव्याजात्स्मारयता गुरुम् । ममोपकृतमत्यर्थ कृतावदी नराधमः ॥ ४६२॥ तथा श्रीसिद्धराजोपि हत्वा खंगारभूपतिम् । तजातीयबहुत्वेन शक्तो देशं न वासितुम् ॥ ४६३ ॥ इदानीं त्वत्पितुर्बुद्ध्या शत्रवस्ते विनाशिताः। सर्वेऽपि च यथा तेषां नामापि नहि बुध्यते ॥ ४६४ ॥ भुक्तौन्यक्षेपि देशश्च मुक्तास्तत्राधिकारिणः। ईदृग् धीमान् भवद्वप्ता स्वामिभक्तिफलं हि तत् ॥ ४६५ ॥ कीर्तिपालः कुमारोऽसौ पदातिर्विग्रहादिषु । अवुधः सांयुगीनेन त्वत्पित्रैव बुधः कृतः ॥ ४६६ ॥ तीर्थोद्धारश्च संदिष्टस्तेन ते तदपीह नः। कार्य ततोऽधुनैवायमादेशो भवतात्तव ॥ ४६७ ॥ राजकोशात्समादाय धनान्यापूर्णतावधि । पूर्य तस्य प्रधानस्य स्वस्यास्माकं च वांछितम् ॥ ४६८ ।। इदानीं त्वस्य देवस्य विंबं मे दर्शय द्रुतम् । पुण्यैर्लभ्यं समभ्यर्च्य प्रधानं कुर्महे ततः॥ ४६९ ॥ ततः संदर्यमानाध्वा श्रीमद्वाग्भटमंत्रिणा।। संचचालाचलाधीशः प्राप चास्य जिनालयम् ॥ ४७० ॥ श्रीमंतं पार्श्वनाथं प्रागानतो मूलनायकम् । ददर्श मंत्रिणा ख्यातमजितं तदनु प्रभुम् ॥ ४७१ ॥ कुंकुमागुरुकर्पूरकस्तूरीचंदनद्रवैः । सुगंधकुसुमैश्चाची विदधे वासनावशात् ॥ ४७२ ॥ व्यजिज्ञपच्च तीर्थेशं त्वत्प्रभावान्नृपं रिपुम् । अस्मिन्नवसरे नाथ विजेप्ये त्वत्प्रसादतः॥४७३ ॥ ततो मम भवानेव देवो माता गुरुः पिता। अत्र साक्षी भवान्मंत्रिन् पाल्यमेतद्वचो मया ॥ ४७४॥ युग्मम् इत्युक्त्वानम्य तं भूपः पुलकांकितविग्रहः। तदा विजययात्रायां सैन्यानि समवाहयत् ॥ ४७५ ॥ उपचंद्रावति प्रायात्प्रयाणैरप्रमाणकैः। आवासान् दापयामास तत्र भूवासवो मुदा ॥ ४७६ ॥ तत्र विक्रमसिंहोऽस्ति राज्येऽमुष्य महाधरः। राज्ञः कटकसेवाया निर्विण्णो गमनामनाः॥ ४७७ ॥
१P यं.