________________
श्रीहेमचंद्रसूरिप्रबन्धः।
३२३ श्रीमान् कुमारपालोपि शूणं मयि तदा धनम्। अधारयिष्यदत्युग्रमूरीचक्रे मयापि तत् ॥ ४४४॥ इदानीं तु त्वदंहीणामग्रे तन्मुंचतो मम । उभौ लोको निजाम्नायः श्रुतं शीलं पवित्रतम् ॥ ४४५॥ मृत्यौ विप्रतिसारो नास्माकं विज्ञापयामि तत् । किंचिन्मन्नंदनस्यास्य वाग्भटाख्यस्य कथ्यताम् ॥ ४४६॥ शत्रुजयमहातीर्थे प्रासादस्य परिश्रुतः। जीर्णोद्धारस्ततः श्रेयो हेतुर्मे स विधीयताम् ॥४४७॥
ओमित्युक्त्वा ततः कीर्तिपालेनांगीकृते तदा। . परासुरभवत्तत्र श्रीमानुदयनः शमी ॥४४८॥ कृते तत्रानृणे वगुरहं स्यामधुना पुनः। खां देवकुलिकामेकां नगरांतर्व्यधापयम् ॥४४९॥ तथात्रैव पुरे वासी व्यवहारी महाधनः। श्रीछहुक इत्याख्यः श्रेष्ठी नवतिलक्षकः ॥ ४५०॥ मन्मैत्र्या तेन चाकारि धर्मस्थानेत्र खत्तकम् । श्रीमत्तत्राजितस्वामिबिंबं चास्थाप्यतामुना ॥४५१ ॥ प्रतिष्ठिते च श्रीहेमसूरिभिर्ज्ञानभूरिभिः । तदीयहस्तमंत्राणां माहात्म्यात्सकलं ह्यभूत् ॥ ४५२ ॥ तत्रोपयाचितं स्वामी चेदिच्छति ततो ध्रुवम् । विजयोऽस्याभिधायीगपराजितताकरी ॥४५३॥ इति विज्ञापनां श्रुत्वा मामकां नायको भुवः। विदधातु विचार्येव नतु प्रभुं पुरोमति ॥ ४५४॥ विज्ञप्तेत्रावनीनेता ध्यातामात्यवचः क्रमः। ऊचे मंत्रिन् भवद्वाक्यात्कार्यजातं मया स्मृतम्॥ ४५५॥ सखे शृणु यदा पूर्व वयं सामान्यवृत्तयः। श्रीस्तंभतीर्थ गच्छाम दिनत्रयमुपोषिताः ॥ ४५६॥ वोसरिर्बटुरस्माभिः प्रेष्यतोदयनान्तिके। अकृतार्थस्ततश्चागात्तदागः स्फुरितं न मे ॥ ४५७ ॥ एतेऽहो स्वामिनो भक्त्या इति चेतस्यभून्मम।। परेषु रोषणः स्वीयाभाग्यदर्शी कृती न सः॥४५८॥ तथा श्वेतांबराचार्यों हेमसूरिमया तदा।। प्रदोषसमयेऽदर्शि कल्पद्रुमसमः श्रिया ॥ ४५९ ॥ पाथेयं कृपया किंच नद्याद्यद्यसौ प्रभुः।
राज्यं कः प्राप्स्यदानंदि भवत्संगमसुंदरम् ॥ ४६० ॥ १ P विज्ञप यामि तु. २ P ननु प्रभपु.