________________
३२२
प्रभावकचरिते
प्रातिहार्यप्रभावेण भवामो जितकाशिनः । यस्य तस्य मनोऽवश्यं वश्यं नो भवतु ध्रुवम् ॥ ४२७॥ व्यजिज्ञपदथ श्रीमान् वाग्भटस्तस्य वाग्भटः। अवधार्य वचः सावधानेन प्रभुणा मम ॥ ४२८ ॥ यदा श्रीस्वामिपादानामादेशात्प्रभुसोदरः। कीर्तिपालो महाबाहुः सुराष्ट्रामंडलं ययौ ॥ ४२९॥ तद्देशाधीश्वरं निग्रहीतुं नवधनाभिधम् ।। अनेकशो विग्रहैश्च खेदिताद्यनराधिपम् ॥ ४३०॥ तदा मजनकस्तत्र श्रीमानुदयनाभिधः । स्तंभतीर्थपुरावासी जन्ये सैन्यबलप्रदः॥ ४३१॥ अन्यदा गच्छता तत्र पुंडरीकाद्रिरुद्धरः। द्रष्टव्यस्यावधिदृष्टस्तेन दुष्प्राप्यदर्शनः॥४३२॥ आचख्ये च निजेशस्य तस्य माहात्म्यमद्भुतम् । श्रीमयुगादिनाथं च नमस्कृत्यातिभक्तितः॥४३३॥ मेने कृतार्थमात्मानं स ध्यानादनुजप्रभोः। प्रासादआलुलोके च तेन सोप्यतिजर्जरः । ततः श्रीकीर्तिपालेन प्रोचेऽसौ भांडशालिकः ॥ ४३४ ॥ प्रासादस्यास्य नश्चेतस्युद्दिधीर्षा स्थिता ध्रुवम् । जित्वामुं विग्रहं प्रत्यावृत्तः सर्व विधास्यते ॥ ४३५॥ पर्वतावतीर्याथ प्रतस्थे पुरतोऽधिपः।। अभ्यमित्रीणतां प्राप नृपः सोपि मदोद्धतः॥ ४३६ ॥ तत आसीन्महायुद्धं कुंताकुंति गदागदि। सैन्ययोरुभयोः शौर्यावेशादज्ञातघातवान् ॥ ४३७॥ तस्मिन्नुदयनोपि स्वस्वामिनः पुरतः स्थितः। प्रजह्वेऽप्रहृतश्चासौ न्यपतद्भूमिमंडले ॥ ४३८॥ युद्धे जिते हते शत्रौ शोध्यमाने रणे प्रभुः। निरीक्ष्योदयनं श्वासावशेषायुषमूचिवान् ॥ ४३९ ॥ अनित्यो भौतिको देहः स्थिरेण यशसा त्वया । व्यक्रीयत स्फुटं साधु वणिग्व्यवहृते कटुः ॥ ४४० ॥ किंचिद्यदस्ति ते चित्ते शल्यं खुरखुरायितम् । ब्रूहि तद्विदधानोहं किंचित्तस्यामृणातिगः ॥ ४४१॥ अथ स प्राह नाथ स्मो वयं स्वामिवशाः स्थिताः। तत्कार्यादपरं नैव जानीमोऽनन्यचेतनाः ॥ ४४२॥ श्रीमत्सिद्धाधिपाद्विश्यद्भवबंधुः क्षितीश्वरः।। वटुमेकं समीपे मे प्रैषीत्सन्यकृतो मया ॥ ४४३ ॥