________________
श्री हेमचंद्रसूरिप्रबन्धः ।
असौ कुमारपालश्च दैवज्ञानुमतः पुनः । धीरं पश्यन्निहायातः संवृत्यांचलमंडलम् ॥ ४१० ॥ निग्रहीता विपक्षाणां विग्रहीता दिगंतरान् । भविष्यति महाभाग्यः सार्वभौमसमः श्रियां ॥ ४११ ॥ अभिषेकमिहैवास्य विदध्वं ध्वस्तदुर्द्धियः । आसमुद्रावधिं पृथ्वीं पालयिष्यत्यसौ ध्रुवम् ॥ ४१२ ॥ अथ द्वादशधा तूर्यध्वनिडंबरितांबरम् । चक्रे राज्याभिषेकोऽस्य भुवनत्रयमंगलम् ॥ ४१३ ॥ प्रविवेशोत्सवै राजा राजसौधं नृपासनि । निविष्टो गोत्रवृद्धाभी रक्षतैरभ्यवर्च्छत ॥ ४१४ ॥ कृतप्रशमनाचारः प्रतापोग्रः परंतपः ।
३२१
कुमारपालभूपालः पालयामास मेदिनीम् ॥ ४१५ ॥ सपादलक्षभूमीशमर्णोराजं मदोद्धुरम् । विग्रहीतुमनाः सेनामसावेनामसजयत् ॥ ४१६ ॥ हास्तिकाश्वीयपादातरथ्याभिरभितो वृतः । धिष्ण्यग्रहौषधीतारानिकरैरिव चंद्रमाः ॥ ४१७ ॥ चचाल लघुसामंतमंडलैकमहीधरैः । अन्यैश्च क्षत्रियैः सेव्यपादां भोजयुगस्ततः ॥ ४१८ ॥ दिनैः कतिपयैरेवाजयमेरुं सुदुर्ब्रहम् । लंकादुर्गमिवागम्यं नृपप्राकारमासदत् ॥ ४१९ ॥ परितोस्य च बब्बूलविदरीखदिरदुमैः । करीरैर्गुफितं नृणां दुर्गमं योजनद्वयम् ॥ ४२० ॥ बहुधा बहुभिर्मर्त्यैश्छिद्यमानपरिक्षयम् । प्राप्नोति न ततः खिन्नो व्यावर्त्तत नराधिपः ॥ ४२१ ॥ उपवर्ष समागत्याणहिल्लपुरमध्यतः । चतुर्मास्यां पुनः सैन्यं जातशोषमपोषयत् ॥ ४२२ ॥ प्रावर्त्तत च तस्यां ते पुनग्रष्मे न्यवर्त्तत । एवमेकादश समा व्यतीयुः पृथिवीपतेः ॥ ४२३ ॥ मम पीतपरांभोधेरपि भाग्याधिकं कथम् । अर्णोराज इति ध्यायन् क्षणं तस्थौ नराधिपः ॥ ४२४ ॥ तस्य वाग्भटदेवोस्ति मंत्री मंत्रीव नाकिनाम् । नीत्या क्षत्रेण मंत्रेणोदयनस्यांगभूस्तदा ॥ ४२५ ॥ अपृच्छत्तं नराधीशः संकटेऽस्मिन् समागते । अस्ति सप्रत्ययः कश्चित् सुरो यक्षोऽथ वासुरी ॥ ४२६ ॥
१ Pomits श्रिया
"रितांबरम् .