________________
३२०
प्रभावकचरिते द्वादशवथ वर्षाणां शतेषु विरतेषु च ॥ एकोनेषु महीनाथे सिद्धाधीशे दिवं गते ॥ ३९३ ॥ ज्ञात्वा कुतोपि सत्वाव्यः कुमारोगान्निजं पुरम्। अस्थादासन्नदेशस्थो वासकैः श्रीतरोरधः॥ ३९४ ॥ दुर्गादेव्याः स्वरं तत्र मधुरं शुश्रुवे सुधीः।। तामाजुहाव भाग्यस्य जिज्ञासुः प्रमतिं तदा ॥ ३९५ ॥ मम पश्यसि चेद्राज्यं देवि ज्ञाननिधे ततः। उपविश्यैव मे मूर्ध्नि स्वरं श्रुतिसुखं कुरु ॥ ३९६ ॥ वचनानंतरं सापि तथैवाधादतिस्फुटम् । त्वं राज इति संरावं तच्चेतःसौधदीपकम् ॥ ३९७ ॥ आयात्पुरांतरा श्रीमत्सांबस्य मिलितस्ततः। चित्ते संदिग्धराज्याप्तिनिमित्तान्वेषणादृतः॥ ३९८ ॥ स तेन सह संगत्य पार्श्व श्रीहेमसुप्रभोः। तनिषद्यादृते पट्टे उपविष्टोभिशिष्टधीः॥ ४९९ ॥ भविष्यत्येव ते राज्यं यनिविष्टोऽस्मदासने। एतदेव निमित्तं न इत्यमुष्य गुरुर्जगौ ॥ ४०० ॥ राज्ये छायाणदपातीति विगानभिया? नहि । ततोहमिति शंक्ये न प्रभो दुर्विनयो मयि ॥ ४०१ ॥ तत्रास्ति कृष्णदेवाख्यः सामंतोऽश्वायतस्थितिः। खसुः पतिं कुमारस्य मिलितो निशि तस्य च ॥४०२॥ युग्मम्। श्रीसिद्धराजमेरौ च संजग्मुः शिवमंदिरे। प्रधाना राज्यसर्वस्वं राज्ययोग्यपरीक्षिणः॥४०३॥ कुमारोऽपि पुरस्यांतराजगाम चतुष्पथम् । एकत्र संगतानां च प्रधानानां तदामिलत् ॥४०४॥ कृष्णः प्रवेशयामास प्रासादे तं करे कृतम्। तत्रापरावतस्थाते राजपुत्रौ प्रवेशितौ ॥ ४०५॥ तयोरेकः प्रणम्यात्र पार्षदान् स उपाविशत् । अपरोपि स्वसंव्यानपदं मुकुलमातनोत् ॥ ४०६॥ अथ श्रीकृष्णदेवेनोपविशेत्युदिते सति । संवृत्य वस्त्रयुगलं स्वमुपाविक्षद्वरासने ॥ ४०७ ॥ व्यचारयंत नीतिज्ञा एकस्तावत्कृतानतिः । निस्तेजाः परिभूयेत स्वैः परैरपि निंद्यधीः ॥ ४०८ ॥ संभ्रांतलोचनं पश्यन्नरो मुक्तचलांचलः। तस्य पार्थ्यात्परैर्भूपैर्विश्वं राज्यं ग्रहीष्यते ॥ ४०९ ॥
१P तू.