________________
श्रीहेमचंद्रसूरिप्रबन्धः ।
श्रीमालवंशभूस्तत्र व्यवहारी महाधनः । समेस्त्युद्यानाभिख्यस्तस्य पार्श्वे महद्वदुः ॥ ३७७ ॥ एकान्तेऽस्य स्ववृत्तान्ते तेन सत्ये निवेदिते । अवादीद्वणिजां श्रेष्ठः किंचित्प्रार्थितशंबलः ॥ ३७८ ॥ अनभीष्टो महीशस्य यस्तेनार्थो न नः स्फुटम् । तद्दापसरेह त्वां मा द्राक्षू राजपूरुषाः ॥ ३७९ ॥ act स्वामिनमात्मीयं पुरः सीमां प्रहापय । एवमुक्तः स नैराश्यं प्राप प्राप्तभयोदयः ॥ ३८० ॥ श्रुत्वा कुमारपालोपि तत्पुरं प्राविशन्निशि । बुभुक्षाक्षामकुक्षिः सन् चतुर्थे लंघने तदा ॥ ३८१ ॥ सूरिः श्रीहेमचंद्रश्च चतुर्मासिकमास्थितः । तदा चारित्रसंज्ञातलब्धिभिर्गौतमोपमः ॥ ३८२ ॥ उद्यद्व्याख्यानलीलाभिर्वारिदस्येव वृष्टिभिः । शीतीकुर्वन्सदा भव्यमतो भूमिं शमिप्रभुः ॥ ३८३ ॥ कथंचिदपि तत्रागात् कुमारोपीक्षितश्च तैः । आकृत्या लक्षणैश्चायमुपालक्षि विचक्षणैः ॥ ३८४ ॥ वरासन्युपवेश्यो चै राजपुत्राखेनिर्वृतः ? | अमुतः सप्तमे वर्षे पृथ्वीपालो भविष्यति ॥ ३८५ ॥ सर्वे कैथं न सुप्राप्य कालं निःकिंचनैः क्षुधाः । द्वात्रिंशतमथ द्रम्मानस्य श्रावकपार्श्वतः । दापयित्वा पुनः प्राहुः शृण्वेकं नो वचः स्थिरम् ॥ ३८६ ॥ अद्यप्रभृति दारिद्र्यं नायाति तव संनिधौ । व्यवहारैरमोच्योऽसि भोजनाच्छादनादिभिः ॥ ३८७ ॥ एवं भावीति चेद्राज्ये प्राप्ते मम कृतं विभो । अवलोक्यमिदानीं तु बहूक्तैः फल्गुभिः किमु ॥ ३८८ ॥ इत्युक्त्वा प्रययौ देशांतरं गूढो नराधिपम् । घनं घनाघनैश्छन्न इव पार्वणचन्द्रमाः ॥ ३८९ ॥ कापालिकवते कौलेशे विचित्रपदोत्तरे । चरन् कदापि कुत्रापि कृत्रिमे कृत्रिमक्रमः ॥ ३९० ॥ ततो वर्षाणि सप्तापि दिनानीवात्यवाहयत् । गुरुवाक्यैर्मनो बिभ्रत्संकटेपि विसंकटम् ॥ ३९१ ॥ तस्य भूपालदेवीति कलत्रमनुगाभवत् । छायेव सर्वावस्थास्वमुंचंती सविधे स्थितिम् ॥ ३९२ ॥
१ P स्तत्व ? २ H omits this line. ३ H रमान्यो.
३१९